________________
उपोद्घातः - [नि. ८०]
५१
संख्याभेदभिन्नं, तत्र गुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदभिन्नं, तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नं, तत्र सामायिकस्य प्रायः परोपदेशसव्यपेक्षत्वादागमे समवतारः, स च लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराभेदभिन्न इति, तत्र सामायिकस्य परमर्षिप्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति ।
नयप्रमाणे तु मूढनयत्वात्तस्य नाधूनाऽवतार इति, वक्ष्यति च-“मूढणइयं सुयं कालियं तु' इत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितपरिमाणं, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति । इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता १ परसमयवक्तव्यता २ उभयसमयवक्तव्यता ३ चेति । स्वसमयःस्वसिद्धान्तः, वक्तक्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसंबन्ध्यपि सम्यक्श्रुतमेव, तस्य स्वसमयोपकारकत्वादिति । इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव । उक्त उपक्रम ।
इदानीं निक्षेपः, स च त्रिधा-ओघनिष्पन्नो १ नामनिष्पन्नः २ सूत्रालापकनिष्पन्नश्चेति ३। तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानं, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारासारतः प्रपञ्चेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यं । नामनिष्पन्ने निक्षेपे सामायिकं, तच्च नामादिचतुर्विधं, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्ती च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्तं किमिति निरुक्तयादावस्य स्वरूप्रतिपादनं, तत्र चेत्स्वरूपाभिधानमष्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह-इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः किं पुनः सूत्रेऽभिधीयते इति, उच्यते, अलं प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापनिष्पन्नस्य निक्षेपस्यावसरः, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् ? सूत्राभावात्, असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीय मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेप्स्यामः । आह___ यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते किमित्युपन्यस्य ते इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्श्यत एव, न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्तयनुगमः सूत्रानुगमश्च, निर्युक्तयनुगमस्त्रिप्रकारः, तद्यथा-निक्षेपनियुक्तयनुगम उपोद्घातनिर्युक्यनुगमः सूत्रस्पर्शिक-निर्युक्तयनुगमश्चेति, तत्र निक्षेपनियुक्तयनुगमोऽनुगत एव, यदधो नामादिन्यासान्वाख्यानमुक्तमिति । इदानीमुपोद्घात-निर्युक्तनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org