________________
४१७
अध्ययनं-१ - [नि.१०३४]
एगत्ते तन्नासे नासो जीवस्स संभवे भवणं ।
कारगसंकरदोसो तदेकयाकप्पणा वावि ।।" इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाहनि. (१०३५) आया हु कारओ मे सामाइयं कम्म करणमाया य ।
परिणामे सइ आया सामाइयमेव उ पसिद्धी । वृ-इहाऽऽत्मैव कारको मम, तस्य स्वातन्त्रेण प्रवृत्तेः, तथा सामायिकं कर्म तद्गुणत्वात्, करणं चोद्देशादिलक्षणं तक्रियत्वादात्मैव, तथाऽपि यथोक्तदोषाणामसम्भव एव, कुत इत्याह-यस्मात् परिणामे सत्यात्मा सामायिकं, परिणमनं-परिणामः कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिरिति, उक्तं च
___ "नार्थान्तरगमो यस्मात्; सर्वथैव न चाऽगमः ।
परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥१॥" । इत्यादि, तस्मिन् परिणामे सति, अयमत्र भावार्थः- परिणामे सति तस्य नित्यानित्याद्यनेकरूपत्वाद् द्रव्यगुणपर्यायाणामपि भेदाभेदसिद्धेः, अन्यथा सकलसंव्यवहारो च्छेदप्रसङ्गाद्, एकान्तपक्षणायत्वानन्यत्वयोरनभ्युपमाद्, इत्थं चैकत्वानेकत्वापक्षयोः कर्तृकर्मकरणव्यवस्थासिद्धे. 'आत्मा' जीवः सामायिकमेव तु प्रसिद्धिः, तथाहि-न तदेकान्तेन अन्यत् तद्गुणत्वान्न चानन्य(त) गुणत्वादेवेति, इत्थं चैतदद्गीकर्तव्यम्, अन्यथा गुणगुणिनोरेकान्तभेदे विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात्, द्दश्यते च यदा कश्चिद्धरिततरूतरूणशाखाविसररन्ध्रोदरान्तरतः किमपि शुकूपश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतगुणिविषय इति, अभेदपक्षे तु संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादित्यलं विस्तरेणेति गाथार्थः ।। भाष्यकारदूषणानि त्वमूनि
“आया हु कारओ मे सामाइय कम्म करणमाआ य । तम्हा आया सामाइयं च परिणामओ एकं ॥१॥
जं नाणाइसहावं सामाइय जोगमाइकरणं च । उभयं च स परिणामो परिणामाणन्नया जं च ॥२॥ तेनाया सामइयं करणं च चसद्दओ अभिन्नाई। ननु भणियमणन्नत्ते तन्नासे जीवनासोत्ति ॥३॥ जइ तप्पज्जयनासो को दोसो होइ ? सव्वहा नत्थि ।
जं सो उप्पायव्वयधुवधम्माणंतपज्जाओ ॥४॥ सव्वं चिय पइसमयं उप्पज्जइ नासए य निचं च । एवं चेव य सुहदुक्खबंधमोक्खाइसब्भावो ॥५॥
एगं चेव य वत्थु परिणामवसेण कारगंतरयं ।
पावइ तेनादोसो विवक्खया कारगं जं च ॥६॥ | 24/27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org