SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३९८ आवश्यक मूलसूत्रम् - १- १/२ दव्वं कीरइ सण्णाकरणंति य करणरूढिओ ॥ ३॥" 'नोसंज्ञे' ति नोसंज्ञाद्रव्यकरणं, तच्च द्विधा प्रयोगतो विश्रसातश्च, अत एवाह-वीससपओगेत्ति गाथार्थः ॥ तत्र विश्रसाकरणं द्विप्रकारं साद्यनादिभेदात्, अत एवाह ग्रन्थकारः[भा. १५४] वीससकरणमणाईं धम्माईण परपञ्चयाजो (यज्जो) गा । साईं चक्खुफासिअम भाइममचक्खुमनुमाई ॥ वृ- विश्रसा स्वभावो भण्यते तेन करणं विश्रंसाकरणम्, इह च 'कृत्यलुटो बहुल' मिति वचनात् करणादिषु यथाप्रयोगमनुरूपार्थः करणशब्दोऽवसेय इति, 'अनादि' आदिरहितं 'धर्मादीना' मिति धर्माधर्माका-शास्तिकायानामन्योऽन्यसमाधानं करणमिति गम्यते, आहकरणशब्दस्तावदपूर्वप्रादुर्भावे वर्तते, ततश्च करणं चानादि चेति विरुद्धम्, उच्यते, नावश्यमपूर्वप्रादुर्भाव एव, किं तर्हि ?, अन्योऽन्यसमाधानेऽपीति न दोषः, अथवा 'परप्रत्यययोगा' दिति परवस्तुप्रत्यययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणमिति, एवमप्यनादित्वां विरुध्यत इति चेत्, न, गा' दिति परवस्तुप्रत्ययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणामिति, एवमप्यनादित्वं विरुध्यत इति चेत्, न, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति, अथवा परप्रत्ययोगात् तत्तत्पर्यायभवनं साधेव करणं, देवदत्तादिसंयोगाद्धर्मादीनां विशिष्ट पर्याय इत्यर्थः, एवमरूपिद्रव्याण्यधिकृत्योक्तं साद्यमनाद्यं च विश्रसाकरणम्, अधुना रूपिद्रव्याण्यधिकृत्य साद्येव चाक्षुषेतरभेदमाह - सादि चक्षुःस्पर्श चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शक्रचापादिपरिग्रहः, 'अचक्खु' त्ति अचाक्षुषमण्वादि, आदिशब्दात् द्व्यणुकादिपरिग्रहः, करणता चेह कृतिः करणमितिकृित्वा, अन्यथा वा स्वयं वुद्ध्या योजनीयेति गाथार्थः ॥ चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयत्राह [भा. १५५] संघायभेअतदुभयकरणं इंदाउहाइ पञ्चक्खं । दुअअनुमाईणं पुण छउमत्थाईणऽपञ्चक्खं ॥ वृ- सङ्घातभेदतदुभयैः करणं संघातभेदतदुभयकरणम् इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुषमित्यर्थः, द्व्यणुकादीनाम्, आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तते, किं ?, छद्मस्थादीनाम् ? आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थ इति, अप्रत्यक्षम् - अचाक्षुषमिति गाथार्थः ।। उक्तं विश्रसाकरणम्, अधुना प्रयोगकरणं प्रतिपादयन्नाह [भा. १५६] जीवमजीवे पाओगिअं च चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले तह उत्तरगुणे अ ॥ वृ- इह प्रायोगिकं द्वेधा- जीवप्रायोगिकजीवप्रयोगिकं च, प्रयोगेन निर्वृत्तं प्रायोगिकं चरमम्अजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः । एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह-जीवप्रयोगकरणं द्विप्रकारं 'मूल' इति मूलगुणकरणं, तथा 'उत्तरगुणे (ति) च' उत्तरगुणकरणं चेति गाथासमासार्थः । व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy