SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९६ आवश्यक मूलसूत्रम् -१-१/२ तत्रास्खलितपदोच्चारणं संहिता, अथवा-परः सन्निकर्षः संहिता, यथा करेमि भंते ! सामाइयमित्यादि जाव वोसिरामित्ति । पदं च पञ्चधा, तद्यथा-नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्र अश्व इति नामिकं खल्विति नैपातिकं परीत्यौपसर्गिकं धावतीत्याख्यातिकं संयत इति मिश्रम्, अथवा सुबन्तं तिङन्तं च, 'सुप्तिन्तं पद' मिति वचनात्, तत्र करोमि भयान्त ! सामायिकं, सर्वं सावधं योगं प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन, मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तपप्यन्यं न समनुजाने, तस्य भयान्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि । अधुना पदार्थः-स च चतुर्विधः, तद्यथाकारकविषयः समासविषयस्तद्धितविषयो निरुक्तिविषयश्च, तत्र कारक-विषयः- पचतीति पाचकः, समासविषयः-राज्ञः पुरुषो राजपुरुष इति, तद्धितविषयः-वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयः-भ्रमति चरौति च भ्रमरः, अत्रापि, 'डुकृञ् करण' इत्यस्य लट्प्रत्ययान्तस्य 'तनादिकृञ्भ्य उ रिति उत्त्वे गुणे रपरत्वे च कृते करोमीति भवति अभ्युपगमश्चास्यार्थः, रूवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः, इह तु ग्रन्थविस्तरभयान्त्रोक्त इति, भयं प्रतीतं, तथा वक्ष्यामश्चोपरिष्टादिति, अन्तो-विनाशः, भयस्यान्त इत्ययमेव पदविग्रहः, पदपृथक्करणं पदविग्रह इति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं सहावद्येन सावद्यः-सपाप इत्यर्थः, युज्यत इति योगः-व्यापारस्तं, प्रत्याख्यामीति, प्रतिशब्दः प्रतिपेधे आङ् आभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावधयोगस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति 'चक्षिा व्यक्तायां वाचि' 'स्य प्रत्याङ्यूर्वस्यायमर्थः प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याचक्षे, 'यावज्जीवये' त्यत्र यावच्छन्दः परिमाणमर्यादावधारणवचनः, तत्र परिमाणे यावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावज्जीवनमिति, मरणमर्यादाया आरान मरणकालमात्र एवेति, अवधारणे यावजीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया, अथवा प्रत्याख्यानक्रिया गृह्यते, यावज्जीवो यस्यां सा यावज्जीवा तया, 'त्रिविध' मिति तिस्त्रो विधा यस्य सावयोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योग-मनोवाक्कायव्यापारलक्षणं, 'कायवाङ्मनः कर्मयोगः' इति वचनात्, त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र 'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुन् प्रत्यये मनः, तच्चतुद्धा-नामस्थापनाद्रव्यभावैः, द्रव्यमनस्तद्योग्यपुद्गलमयं, भावमनो मन्ता जीव एव, 'वच परिभाषणे' वचनम् उच्यते वाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, “चिञ् चयने' चयनं चीयते वाऽनेनेति “निवासचितिशरीरोपसमाद्यानेष्वादेश्च कः" इति कायः, जीवस्य निवासात् पुद्गलानां चितेः पुद्गलानामेव केषाञ्चित् शरणात् तेषामेवावयवसमाधानात् कायः-शरीरं, सोऽपि चतुर्द्धा नामादिभिः, तत्र द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामिना च जीवेन ये मुक्ता यावत्तं परिणामं न मुञ्चन्ति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसम्प्रयुक्ताश्च, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy