________________
अध्ययनं -१ - [ नि. ९३७]
३६३
वसायमलरहिता 'सूक्ष्मा' अत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था 'यस्य मतिः' इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः ॥
नि. (९३८) उप्पत्तिओ १ वेणइआ २, कंमिया ३ पारिणामिआ ४ । बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भए ।
वृ- उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधरण इति न विवक्ष्यते, न चान्यछास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः गुरुशुश्रूषा स कारणमस्यास्तठप्रधाना वा वैयनिकी २, अनाचार्यक कर्म साचार्यकं शिल्पं, कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा' इति कर्मणो जाता कर्मजा ३, परिः समन्तान्नमनं परिणामः सुदीर्घकालपूर्वापरार्थाबलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधान वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धिः - मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः किमिति ?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह -
नि. (९३९) पुव्वमदिट्ठमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगिण बुद्धी उप्पत्तिआ नाम ।।
वृ- 'पूर्वम' इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः 'अवेदित' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः यथावस्थितः गृहीतः - अवधारितः अर्थः- अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं-प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति - अव्याहतफलयोगा, अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः । साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह -
नि. (९४०) भरहसिल १ पणिअ २ रुक्खे३ खुड्डग ४ पड ५ सरड ६ काग ७ उच्चारे ८। गय ९ घयण १० गोल ११ खंभे १२, खड्डग १३ मग्गित्थि १४ पइ १५ पुत्ते १६ । नि. (९४१)भरहसिल १ मिंट २ कुक्कुड ३ तिल ४ वालुअ ५ हत्यि ६ अगड ७ वनसंडे ८ । पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ१३ ॥
नि. (९४२) महसित्थ १७ मुद्दि १८ अंके १९ अ नाणए २० भिक्खु २१ चेडगनिहाणे । सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६ ॥
वृ- आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि उज्जेनीए नयरीए आसन्नो गामो नाणं, तत्थेगस्स नडस्स भज्जा मया, तस्स य पुत्तो डहरओ, तेन अन्ना आनीया, सा तस्स दारगस्स न वट्टइ, तेन दारएण भणियं मम लट्ठ न वट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्त, तेन रत्ति पिया सहसा भणिओ एस गोहो एस गोहोत्ति, तेन नायं मम महिला विनट्ठत्ति सिढिलो रागो जाओ, सा भाइ मा पुत्ता ! एवं करेहि, सो भणइ-मम लट्ठे न वट्टसि, भणइ - वट्टीहामि, ता लट्ठे करेमि, सा वट्टिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org