________________
अध्ययनं -१ - [ नि. ८९०]
३३३
रन्ना आणाविओ, कयालंकारो दिन्नवत्थो तेहिं उवनीओ, सो य कच्छूए गहिएल्लओ, भासुरं ओलग्गाविज्जइ, कालंतरेण रायाणए से रज्जं दिन्नं, पेच्छइ दंडभडभोइए देवयाययणपूयाओ करेमाणे, सो चिंतेइ - अहं कस्स करेमि ?, रन्नो आययणं करेमि तेन देउलं कयं, तत्थ रन्नो देवीए य पडिमा कया, पडिमापिवेसे आणीयाणि पुच्छंति, साहइ, तुट्ठो राया सक्कारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुट्ठेण राइणा से सव्वट्ठाणगाणि दिन्नानि, अन्नया राया दंडयत्ताए गओ तं सव्वंतेउरट्ठाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोहं असहमाणिओ तं चेव उवचरंति, सोच्छ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विट्टालिओ य, राया आगओ, सिट्टे विनासिओ । रायत्त्थाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा न छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दव्वनमोक्कारो भविस्सइ, दमगत्याणिया साहू, कच्छूल्लत्थाणीयं मिच्छत्तं, भासूरत्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एस दव्वनमोक्कारो । 'भावोवउत्तु जं कुञ्ज सम्मद्दिट्ठी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात्' यत् करोति शब्दक्रियादि सम्यग्द्दष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिवि-नेयजनानुग्रहार्थं च नोक्तमिति ॥
पदद्वारमधुना-पद्यतेऽनेनेति पदं, तच्च पञ्चधा नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्र, रूवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह- 'नेवाइयं पयं' ति निपतत्यर्हदादिषदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र 'नम' इति नैपातिकं पदं ।। पदार्थद्वारमधुना - तत्र गाथावयवः 'दव्वभावसंकोयणपयत्थो' त्ति नम इत्येतत् पूजार्थं 'णम ग्रह्णत्वे' धातुः 'उणादयो बहुल' मित्यसुन्, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरः पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसज्जोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्ग चतुष्टयं द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थ: ।। प्ररूपणाद्वारप्रतिपादनायाऽऽह
नि. ( ८९१) दुविहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो । किं १ कस्स २ केण व ३ कहिं ४ किच्चिरं ५ कइविहो व ६ भवे ॥
वृ- 'द्विविधा' द्विप्रकारा प्रकृष्टा - प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति, द्वैविध्यं दर्शयत-िषट्पदा च नवधा च नवप्रकाश नवपदा चेत्यर्थः, चशब्दात् पञ्चपदा च, तत्र 'छप्पया इणमो' षट्पदेयं षट्पदा इदानीं वा, किं ? कस्य ? केन वा ? क्व वा ? कियच्चिरं ? कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः । तत्राऽऽद्यद्वारा वयवार्थाभिधित्सयाऽऽहनि. (८९२) किं ? जीवो तप्परिणओ पुव्वपडिवन्नओ उ जीवाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org