________________
पीठिका - [नि. ३५]
२९
तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया, द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च ‘भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्येयाः कदाचिद् एकः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्याावधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥
एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्धया कालवृद्धिरनियता कालवृद्धया च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यदृद्धो यस्य वृद्धिर्भवति यस्य वा न भवति अमुमर्थमभिधित्सुराहनि. (३६) काले चउण्ह वुड्डी, कालो भइयव्वु खित्तवुड्डीए। .
वुड्डीइ दव्वपज्जव, भइयव्वा खित्तकाला उ । वृ- 'काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णो' द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, कालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति, कुतः ? क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धेते, सप्तम्यन्तता चास्य --
“ए होति अयारंते, पयंमि बिइयाए बहुसु पुंलिङ्गे।
तइयाइसु छट्ठीसत्तमीण एगंमि महिलत्थे ।" अस्माल्लक्षणात् सिध्यंति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां 'भक्तव्यौ' विकल्पनीयौ क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यं, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्तिनामपि च वृद्धिसंभवात् कालवृद्धयभावो भावनीय इति गाथाथः ॥ __ अत्र कश्चिदाह-जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अङ्गुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् ?, अत आहनि. (३७) सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं ।
अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा । वृ- 'सूक्ष्मः' श्लक्ष्णश्च, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि 'ततः' कालात्, सूक्ष्मतरं भवति क्षेत्रं, कुतः?, यस्मात् अङ्गुलश्रेणिमात्रे
क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृभिः प्रतिपादिताः, . एतदुक्तं भवति-अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति Jain Education International
For Private & Personal Use Only
www.jainelibrary.org