________________
उपोद्घातः - [नि.७९६]
२९१ गाथार्थः । साम्प्रतं मूलभाष्यकारः श्रुतसामायिकं व्याचिख्या-सुस्तस्याध्ययनरूपत्वादाह[भा.१५०] अज्झयणंपि य तिविहं सुत्ते अत्थे य तदुभए चेव ।
सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती ॥ वृ- अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभेदात् त्रिविधमिति । प्रक्रान्तोपोद्घात नियुक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह-'शेषेष्वपि चतुर्विंशतिस्थ्वादिष्वन्येषु वाऽध्ययनेषु भवति एषैव नियुक्तिःउद्देशनिर्देशादिका निरुक्तिपर्यवसानेति । आह- अशेषद्वारपरिसमाप्तावति-देशोन्याय्यः, अपान्तराले किमर्थमिति ?, उच्यते, 'मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवती' ति न्यायप्रदर्शनार्थ इति गाथार्थः । अधुना कस्येति द्वारं प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽहनि. (७९७) जस्स सामानिओ अप्पा, संजमे नियमे तवे ।
तस्स सामाइयं होइ, इह केवलिभासियं ।। वृ-यस्य 'सामानिकः' सन्निहितः, अप्रवसित इत्यर्थः, 'आत्मा' जीवः, क्क?-'संयमे' मूलगुणेषु 'नियमे' उत्तरगुणेषु तपसि' अनशनादिलक्षणे 'तस्य एवम्भूतस्याप्रमादिनः सामायिकं भवति, 'इति' एवं केवलिभिर्भाषितमिति गाथार्थः ॥ नि. (७९८) जो समो सव्वभूएसु, तसेसु थावरेसु य ।
तस्स सामाइयं होइ, इइ केवलिभासियं ॥ . वृ-यः समः' मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, 'सर्वभूतेषु' सर्वप्राणिषु ‘त्रसेषु' द्वीन्द्रियादिषु स्थावरेषु च पृथिव्यादिषु, तस्य सामायिकं भवति, एतावत् केवलिभाषितमिति गाथार्थः ॥ साम्प्रतं फलप्रदर्शनद्वारेणस्य करणविधानं प्रतिपादयन्नाहनि. (७९९) सावजजोगप्परिवजणट्ठा, सामाइयं केवलियं पसत्यं ।
गिहत्यधम्मा परमंति नच्चा, कुजा बुहो आयहियं परत्यं ॥ वृ-सावद्ययोगपरिवर्जनार्थं सामायिकं 'कैवलिकं' परिपूर्णं 'प्रशस्तं' पवित्रम्, एतदेव हि गृहस्थधर्मात् 'परमं प्रधानम् ‘इति' एवं ज्ञात्वा कुर्याद् ‘बुधः' विद्वान् ‘आत्महितम् आत्मोपकारकं ‘परार्थम्' इति परः-मोक्षस्तदर्थं, न तु सुरलोकाद्यवाप्तयर्थम्, अनेन निदानपरिहारमाह, इति वृत्तार्थः । परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव नियमं पजुवासामी' त्येवं कुर्यात्, आह-तस्य सर्वं त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोष इति ?, उच्यते, प्रवृत्तकरिम्भानुमत्यनिवृत्त्या करणासम्भव एव, तथा भङ्गप्रसङ्गदोषश्चेति । आह चनि. (८००) सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि ।
सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ कृ-'सब्वं' ति उपलक्षणात् सर्वं सावध योगं प्रत्याख्यामि त्रिविधं त्रिविधेन, इत्येवं ‘भाणिऊण' अभिधाय 'विरतिः' निवृत्तिः खलु यस्य ‘सर्विका' सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात्, स सर्वविरतिवादी 'चुक्कइ' त्ति भ्रश्यति 'देसं च सव्वं चे' ति देशविरतिं सर्वविरति च, प्रतिज्ञाताकरणात् । आह-आगमे त्रिविधं त्रिविधेनेति गृहस्थ-प्रत्याख्यानमुक्तं तत्कथमिति?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org