________________
उपोद्घातः - [नि.७८३]
२७७ एवं पर्यालोच्यैवमेव प्ररूपणां चकारेति, स चेत्थं प्ररूपयनं स्वगच्छस्थविरैरिदमुक्तः- हे आचार्य! 'क्रियमाणं कृत' मित्यादि भगवद्वचनमवितमथमेव, नाध्यक्षविरुद्धं, यदि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः कथं प्राक् क्रियाऽनारम्भसमय इव पश्चादपि क्रियाऽभावे तदिष्यत इति, सदा प्रसङ्गात्, क्रियाऽभावस्याविशिष्टत्वात्, तथा यच्चोक्तं भवता 'अर्द्धसंस्तृतसंस्तृतदर्शनात् तदप्ययुक्तं, यतो यद् यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एव, विशिष्टसमयापेक्षीणि च भगवद्वचनानि, अतोऽदोषः
एवं सो जाहे न पडिवज्जइ ताहे केइ असद्दहंता तस्स वयणं गया सामिसगासं, अन्ने तेनेव समं ठिया, पियदंसणावि, तत्थेव ढंको नाम कुंभगारो समणोवासओ, तत्थ ठिया, सा वंदितुं आगया, तंपि तहेव पन्नवेइ, सा य तस्सानुराएण मिच्छत्तं विपडिवण्णा, अजाणं परिकहेइ, तं च ढंक भणति, सो जाणति-एसाऽवि विप्पडिवण्णा नाहघएणं, ताहे सो भणति-सम्मं अहं न याणामि एवं विसेसतरं, अन्नयाकयाईं सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उव्वत्तंतेण ततोहुत्तो इंगालो छूढो, ततो तीसे संघाडीए एगदेसो दड्डो, सा भणइ-सावय ! किं ते संघाडी दड्डा ?, सो भणइ-तुब्भे चेव पन्नवेह जहा-दज्झमाणे अडड्डे, केण तुब्भ संघाडी दड्डा ?, ततो सा संबुद्धा भणइ-इच्छामि संमं पडिचोयणा, ताहे सा गंतूण जमालि पन्नवेइ बहविहं, सो जाहे न पडिवाइ ताहे सा सेससाहुणो य सामिं चेव उवसंपन्नाई, इतरोऽवि एगागी अनालोइयपडिकंतो कालगतो ॥ एष सङ्ग्रहार्थः, अक्षराणि त्वेवं नीयन्ते, जेट्ठा सुदंसणा अनोज्जति जमालिधरणीए नामाई, सावत्थीए नयरीए तेंदुगुजाणे जमालिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहूणं सहस्सं च संजईणं, एतेहिंजे सतं न पडिबुद्धं तं ढंकेण पडिबोहियंति वक्कसेसं, जमालिं मोतूणंति ॥ अन्ये त्वेवं व्याचक्षते-जेट्ठा महत्तरिगा सुदंसणाऽभिहाणा भगवतो भगिणी, तीसे जमाली पुत्तो, तस्स अन्नोज्जा नाम भगवतो दुहिता भारिया ॥ शेषं पूर्ववत् । गतः प्रथमो निह्नवः, साम्प्रतं द्वितीयं प्रतिपादयन्नाह[भा.१२७] सोलस वासाणि तया जिनेन उप्पाडियस्स नाणस्स ।
जीवपएसियदिट्ठी उसभपुरंमी समुप्पन्ना ॥ वृषोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः । कथमुत्पन्ना? रायगिहं नगरं गुणसिलयं चेइयं, तत्थ वसू नामायरिओ चोद्दसपुब्बी समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुव्वे इमं आलावयं अज्झावेइ-एगे भंते ! जीवपएसे जीवेत्ति वत्तव्वं सिया ?, नो इणमढे समढे, एवं दो जीवपएसा तिन्नि संखेज्जा असंखेज्जा वा, जाव एगेनावि पदेसेण ऊणो नो जीवोत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपदेसतुल्लपएसे जीवेत्ति वत्तब्व' मित्यादि, एवमज्झावितो मिथ्यात्वोदयतो व्युत्थितः सन्नित्थमभिहितवान्योकादयो जीवप्रदेशोः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते, किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात्, कथम् ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात्, प्रथमादिप्रदेशवत्, प्रथमादि-प्रदेशो वा जीवः, शेषप्रदेशतुल्यपरिममाणत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org