________________
उपोद्घातः [नि. ७५८ ]
वस्तुनः कुटादेस्तत्र सङ्क्रान्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । 'वञ्जण' मित्यादि व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं-शब्दः अर्थस्तु तद्गोचरः, तच्च तदुभयं च तदुभयं - शब्दार्थलक्षणम् 'एवम्भूतो' यथाभूतो नयः विशेषयति, इदमत्र हृदयम् - शब्दमर्थेन विशेषयर्थं च शब्देन, 'घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा स घटः, तद्वाचकन्न शब्दः, अन्यदा वस्त्वन्तरस्येवं चेष्टाऽयोगादघटत्वं तद्ध्वनेश्चा-वाचकत्वमिति गाथार्थः । एवं तावन्नैगमादीनां मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तत्प्रभेदसङ्घयां प्रदर्शयन्नाह - नि. (७५९)
एक्केको य सयविहो सत्त नयसया हवंति एमेव । अन्नोऽवि य आएसो पंचेव सया नयाणं तु ॥
- अनन्तरोक्तनैगमादिनयानामेकैकश्च स्वभेदापेक्षया 'शतविधः ' शतभेदः सप्त नयशतानि भवन्ति एवं तु, अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात्षट् चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद् एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात्, तयोश्च शतभेदत्वादिति गाथार्थः ॥ एएहिं दिट्ठवाए परूवणा सुत्तअत्थकहणा य । इह पुण अनब्वगमो अहिगारो तिहि उ ओसन्नं ॥
नि. (७६०)
वृ- 'एभिः ' नैगमादिभिर्नयैः सप्रभेदैद्दष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलङ्घनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तद्व्यतिरेकेणापि च वस्तुसम्भवात्, 'इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयैर्व्याख्या कार्येति, किन्तु ?, श्रोत्रपेक्षं कार्या, तत्राप्यधिकारस्त्रिभिराद्यैः 'उत्सन्नं' प्रायस इति गाथार्थः ।। आह - ' इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थमिति, उच्यते
नि. (७६१) नत्थि नएहि विहूणं सुत्तं अत्यो व जिनमए किंचि । आज उ सोयारं नए नयविसारओ बूया ॥
वृ- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्य तस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिं, तुशब्दः पुनः शब्दार्थे, किम् ? -नयान्नयविशारदो-गुरुब्रूयादिति गाथार्थः ॥ उक्तं नयद्वारम्, अधुना समवतारद्वारमुच्यते-कैतेषां नयानां समवतारः ?, क्ववाऽनवतार इति संशयापोहायाहनि. (७६२) मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थ पुहुत्ते समोयारी ॥
24 17
Jain Education International
२५७
For Private & Personal Use Only
www.jainelibrary.org