________________
उपोद्घातः - [नि.६२४]
२२१
जयमानोऽञ्जसा स्वर्गलोकं गच्छती' त्यादीनि, तथा 'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्ये' त्यादीनि च, तथा ' को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मतौ प्रतिभासते-यथा अपाम- पीतवन्तः सोमं - लतारसम् अमृता- अमरणधर्माणः अभूम - भूताः स्म, अगमन्–गताः ज्योतिः-स्वर्गम्, अविदाम देवान्- देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः-अरातिर्व्याधिः किमु प्रने धूर्त्तिःजरा अमृतमर्त्यस्य- अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टवयम्, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः ? । तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः सङ्किष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख- सम्प्रतप्तत्वादिहागन्तुमशक्ता एव अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपाया-सम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु, ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृष्टदिव्यप्रभावात् इहागमनसामवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्,
तत्र वेदपदानामयमर्थः –'को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि ' त्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मत्प्रत्यक्षत्वात्, मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमं, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम् - नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्त-विच्छिन्नरम्यदेशान्तरगतमनुष्यवत्, तथाऽसमाप्तकर्त्तव्यत्वाद्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत्, तथाऽनधीनननुजकार्यत्वात्, नारकवत्, अनभिमतगेहादौ निः सङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति, मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन ।
नि. (६२५)
छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ अद्धट्ठहिं सह खंडियसएहिं || वृ- व्याख्या - पूर्ववत् । समाप्तः सप्तमो गणधरः ।
नि. (६२६) ते पव्वइए सोउं अकंपिओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ||
वृ- व्याख्या–पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । नि. (६२७) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या- सपातनिका पूर्ववदेव ।
नि. (६२८) किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org