________________
उपोद्घातः [नि.६१६]
कर्म, तच्च तिर्यग्ग्ररनारकामराद्यायुष्कभेद-भिन्नत्वात् चित्रवेव, अतः कारणवैचित्र्यादेव कार्य्यवैचित्र्यमिति, वस्तुस्थित्या तु सौंम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात् नापि सर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । नि. (६१७) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं |
वृ- व्याख्या - पूर्ववत् । इति पञ्जमो गणधरः समाप्तः ।
नि. (६१८) ते पव्वइए सोउं मंडिओ आगच्छइ जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥
२१९
वृ- तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनकसाशं, किम्भूतेनाध्यवसायेनेत्याह- वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थी, अत्रान्तरे
नि. (६१९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥
वृ- व्याख्या-पूर्ववत् ।
नि. (६२० ) किं मन्नि बंधमोक्खा अत्थि न अत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ।
वृ- किं मन्यसे बन्धमोक्षौ स्तो न वा ?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्ध-वेदपद श्रष्टतिसमुत्थो वर्त्तते, वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि - स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते - स एषः - अधिकृतो जीवः विगुणः सत्त्वादिगुणरहितः विभुः - सर्वगतः न बध्यते - पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्त्तृकत्वमाह, न वा एष बाह्यम्-आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं - स्वरूपमेव वेद - विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्बन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभवप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः सशरीरस्य प्रियाप्रिययोरपहतिरस्तीतिबाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्- अमूर्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य ! भवतोऽभिप्रायो - बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादिरहितो वा स्यात् ?,
यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्वं कर्मणः पश्चादात्मनः आहोश्विद्युगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतिर्युज्यते, निर्हेतुकत्वाद्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org