________________
२१४
आवश्यक मूलसूत्रम्-१
प्राग्व्यावर्णित स्वरूपेण हेतुभूतेन, व्रजामिणमिति वाक्यालङ्काकरे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं 'श्रमणम्' इन्द्रजालिककल्पमिति गाथार्थः ॥ स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता ? इत्यादि चिन्तयन् जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरेनि. (६०३) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- पूर्ववत्, नामोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति ॥
अत्रान्तरे भगवताऽभिहितःनि. (६०४) किं मण्णि अत्थि कम्मं उदाहु नत्यित्ति संसाओ तुज्झ ।
वेयपयाण य अत्थं न जाणसी तेसिमो अत्थो । वृ-किं मन्यसे अस्ति कर्म उत नास्तीति ?, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिबन्धनो वर्तते, वेदपदानां चार्थं न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः ॥ तानि च अमूनि वेदपदानि-"पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यत्रैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्तते-पुरुषः-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवच्छेदार्थः, 'इदं' सर्वं प्रत्यक्षवर्तमानं चेतनाचेतनं, निमिति वाक्यालङ्कारे, 'यद् भूतं' यद् अतीतं यच्च ‘भाव्यं' भविष्यं, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्चैत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, ‘अन्नेन' आहारेण ‘अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति' यत् चलति-पश्वादि, 'यत् न एजति' यन्न चलति-पर्वतादि, 'य कैरे' मेर्वादि, 'यद् उ अन्तिके' उशब्दोऽवधरणे, ‘अन्तिके समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यद् अन्तर्' मध्ये 'अस्य' चेतना चेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, तत्सर्वं पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत्, अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग? इति, कथं वा अमूर्तस्य सतः मूर्तकर्मकृतावृपधातानुग्रहौ स्यातामिति, लोके तन्त्रान्तरेषु च कर्मसत्ता गीयते 'पुण्यः पुण्येन' इत्यादौ, अतो न विद्मः-किमस्ति नास्ति वा ?, ते अभिप्रायः, तत्र वेदपदानां च अर्थं न जानासि, चशब्दाधुक्ति हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थः-एतानि हि पुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्यार्थानि वा, सौम्य ! इत्थं चैतदङ्गकर्तव्यं, यतः नाकर्मणःकर्तृत्वं युज्यते, प्रवृथिनिबन्धनाभावात्, एकान्तरशुद्धत्वात्, गगनवत्, इतश्च अकर्मा नारम्भते, एकत्वात् एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्तेः, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org