SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१२ आवश्यक मूलसूत्रम्-१-. प्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणविौगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः । इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्-अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति ?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाहनि. (६००) किं मनि अस्थि जीवो उआहु नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो । वृ-हे गौतम ! किं मन्यसे-अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्ध-वेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थं न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमर्थो -वक्ष्यमाणलक्षण इति । अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते, भगवतः सकलसंशयातीतत्वात्, संशयवतश्च तत्प्रयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः। यदुक्तम्-'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सञ्झाऽस्ती" त्यादीनि, तथा 'स वै अयमात्मा ज्ञानमयं' इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिवर्तते-विज्ञानमेव चैतन्यं, नीलादिरूपत्वात्, चैतन्यविशिष्टं यन्नीलादि तस्मात्, तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः ?- भूतेभ्यः' पृथिव्यादिलक्षणेभ्यः, किम्? -'समुत्थाय' उत्पद्य, पुनस्तानि एव 'अनु विनश्यति' अनु-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसज्ञाऽस्ति इति भावार्थः । ततश्च कुतो जीवः ?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः-यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः 'सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं' न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः-प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गलिङ्गिसम्बन्धस्मृतिमुखेन तत्प्रवर्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात्, नापि सामान्यतोष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, द्दष्टान्तेऽपि तस्याध्यक्षतोऽ-ग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात्, तथा च-घटे घटशब्दप्रयोगोपलब्धावृत्तरत्र घटध्वनिश्रवणात् अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो द्दष्टो यमात्मशब्दात् प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात्, तथा च - "एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥' इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याद्यपरः, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यार्थः तथा 'अकर्ता निर्गुणो भोक्ता' इत्यादिश्चान्यः, तथा ‘स वै अयमात्मा ज्ञानमय' इत्याद्यपर इति, एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषव्रातवत्, अतो न विद्मः-किमस्ति नास्ति?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युक्ति हृदयं च, तेषामेकवाक्यता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy