________________
आवश्यक मूलसूत्रम्-१
तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवति-एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्रं' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह-क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्बाह्यतोऽपि भवति, अयं विशेष इति, चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादिकालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्त इति, तथ भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यं, आह-भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प बहुत्वं वक्तव्यमिति समदायार्थः ।
इदानीं प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथम् ?, अन्विष्यते 'आभिनिबोधिकज्ञानं किमस्ति नास्तीति,' अस्ति, यद्यस्ति व तत् ?, तत्र 'गताविति' गतिमङ्गीकृत्या-लोच्यते, सा गतिश्चतुर्विधा-नारकतिर्यनरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रति-पन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तप्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति । तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः २ । तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे त भाज्याः, शेषकायेषु च पृथिव्यादिषु उभयाभाव इति ३। तथा 'योग इति' त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति ४ । तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे तु भाज्या इति ५।
तथा 'कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्रायेषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु त पञ्चेन्द्रियवद् योज्यम् ६ । तथा 'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्तत्मानमष्टविधेन कर्मणा इति लेश्याः- कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति ७ । तथा 'सम्यक्त्वद्वारं' सम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह-सम्यग्दृष्टि पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोध्किाज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्गामानश्च आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनसहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपत्त्यनवस्थेति ८। तथा 'ज्ञानद्वारं' तत्र ज्ञानं पञ्चप्रकारं, मतिश्रुतावधिमनः पर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहार
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org