SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ आवश्यक मूलसूत्रम्-१ वृ-गमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके 'सयसहस्संति वर्षशतसहस्त्रं यावदिति, कथम् ?, सर्वत्र मासभकोन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभिः कारणैः तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उववन्नोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलंमित्ति' ततःपुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्न इति गाथार्थ ॥ कानि पुनविशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आहनि. (४५१-४५६) अरिहंतसिद्धपवयण ॥ दंसणं ॥ अप्पुव्व ।। पुरमेण ॥ तं च कहं । निअमा ॥ वृ- एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते । नि. (४५७) माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । - तस्स घरे उववन्नो देवानंदाइ कुञ्छिसि । वृ-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः ॥ साम्प्रतं वर्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह नियुक्तिकारःनि. (४५८)सुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ५ वुड्डि ६ सरणं ७ च। भेसण ८ विवाह ९ वच्चे १० दाणे ११ संबोह १२ निक्खमणे १३॥ वृ-गमनिका-'सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्कामन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभिग्गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । ‘जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसेउत्ति' अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'वुद्दित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धि जगाम। 'सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । “विवाहेति' विवाहविधिर्वक्तव्यः । 'अवचेत्ति' अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह [भा.४६]गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिनयरं ७ झयं ८ कुम्भं ९। ___ पउमसर १० सागर ११ विमानभवन १२ रयणुच्चय १३ सिहिं च १४ ॥ वृ-गजं वृषभं सिंह अभिषेकं दाम शशिनं दिनकर ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रनोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेकः-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy