________________
पीठिका - [नि.१] शब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ? छद्मस्वस्वामिसाधर्म्यात्, तथा पुद्गलमात्रालम्बनत्वसाम्यात्, तथा क्षायोपशमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसहशमितिहृदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं, यथावस्थिताशेषभूतद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ॥ __मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रत-कालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वपरप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राहएषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्छते, परोक्षत्वादिसाधान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्वं किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य "श्रुतं मतिपूर्वम्" इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वात्प्रत्यसाधाच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालमिवपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधान्मनः पर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादि-साधात्सर्वोत्तमत्वाच केवलस्येति गाथार्थः ।। ___साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्धिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते-तच्चाभिनिबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति । आह-"तिवग्गसुत्तत्थगहियपेयाला" इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थः-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्त्वियादि तदश्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकीं विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाहनि. (२) उग्गह ईहाऽवाओ य धारणा एव हुंति चत्तारि ।
आभिनिबोहियनाणस्स भेयवत्थू समासेणं ।। वृ-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थविशेषनिश्चयोऽवायः, चशब्दः पृथक् २ अवग्रहादिस्वरूप-स्वातन्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, ‘एवं' अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिवोधिकज्ञानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org