________________
४८२
व्यवहार-छेदसूत्रम् - २ - १०/२५१
वृ. इन्द्रियाणि चक्षुरादीनि कषायान् क्रोधप्रभृतीन् गौरवाणि ऋद्धिगौरवप्रमुखाणि कृशानि (कुरु) न चेदं ते साधोः कृशं शरीरकं प्रशंसामो भावसंलेखव्यतिरेकेण द्रव्यरसंलेखस्यापि किञ्चित्करत्वात् । गतं संलेखनाद्वारमिदानीमालोचनाद्वारमाहआयरियपायमूलं गंतूणं सइ परक्कमे ।
भा. [४२९२]
ताहे सव्वेण अत्तसोही कायव्वा एस उवएसो ॥
वृ. तत्तो द्रव्यसंलेखना भावसंलेखनानन्तरं भक्तं प्रत्याख्यातुकामेन सर्वेण स्वयं शोधि जानता जानता च सति पराक्रमे आचार्यपादमूले गत्वा शोधिः कर्तव्या । एष तीर्थकृतां गणभृतां चोपदेशः तत्र स्वयं शोधिं जानन्तः प्रत्याह
भा. [४२९३]
जह सकुसलो वि वेज्जो अन्नस्स कहेइ अत्तणो वाहिं । वेज्जस्य सो सोउंतो पडिक्कमं समारभते ॥ जातेण वि एवं पायच्छित्तविहिमप्पणो निउणं । तह वि य पागडतरयं आलोएयव्वयं होइ ।।
भा. [४२९४]
वृ. यथा सुकुशलोऽपि वैद्योऽन्यस्यात्मनो व्याधिं कथयति सोऽपि वैद्यस्य श्रुत्वा व्याधिकथनं ततः प्रतिकर्म समारभते । एवं प्रायश्चितविधिमात्मनो निपुणं जानतापि तथापि प्रकटतरमालोचयितव्यं भवतीति कृत्वा अन्यस्य समीपे आलोचयितव्यं । ततोऽप्यनेन किं कर्तव्यम् भा. [४२९५ ] छत्तीसगुणसमन्नागएण तेन वि अवस्स कायव्वा ।
परिपक्खिया विसोही सुट्ठविवहार कुसलेणं ॥
वृ. तेनाप्यनेनाचार्येण पत्रिशद्गुणसमन्वागतेन षट्त्रिंशद्गुणा अट्ठविहा गणिसंपय इत्यादिना प्रोगेवाभिहिताः । सुष्ठुअपि व्यवहारकुशलेन परपक्षिका परपक्षे गता विशोधिरवश्यं कर्तव्या । कथं पुनरात्मनः शोधिजातमप्यालोचयदित्याह
भा. [४२९६ ]
जह बालो जपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को उ॥
वृ. अथ बालो जल्पेन् कार्यमकार्यं च ऋजुकममायं भणति तथा मायामदविप्रमुक्तस्तत्कार्यमकार्यं वा गुरोः पुरत आलोचयेत् । सम्प्रति मायानिर्धातने उपदेशमाहउप्पन्ना उप्पन्ना माया अनुमग्गतो निहंतव्वा । आलोयणनिंदणगरहणेहिं न पुनो अवितहेत्ति ।।
भा. [४२९७]
वृ. उत्पन्ना उत्पन्ना माया मार्गतः पष्टो लग्नेन आलोचननिन्दनगर्हनैर्निहन्तव्या । कथमित्याहन पुनरेवं द्वितीयं वारं करिष्यामीति प्रतिपत्त्या, संप्रत्यालोचनायां ये गुणा भवन्ति तानुपदर्शयति; भा. [४२९८ ] आयारविनयगुण कप्पदीवणा अत्तसोहि उजुभावो ।
अज्जवमद्दवलाघव तुट्ठीपल्हायजननं च ॥
वृ. आलोचनायां दत्तायामाचारः पञ्चविध आसेवितो भवति, विनयगुणश्च प्रवर्तितो भवति, कल्पदीपनानामवश्यमालोचयितव्यो अतीचार इत्यस्य कल्पस्य प्रकाशनमन्येषामुपदर्शनं, ततस्तेऽप्यन्ते एवं कुर्वन्ति । तथा आत्मनो विशोधिर्निः शल्यता कृता भवति । तथा ऋजुसंयमस्तस्य भावो भवनं तत्कृतं भवति, । तथा आर्यभवमार्यत्वं, मार्दवममानत्वम् लाघवमलो भत्वमेतानि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only