SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४८० व्यवहार-छेदसूत्रम्-२- १०/२५१ वृ. यो भक्तं प्रत्यख्यातुकामस्तेन गच्छसाधवः परीक्षितव्याः किमेते भाविता इति गच्छसाधुभिरपि स परीक्षणीयः । किमेष निस्तारको भवेत् किं वा नेति, आचार्येणापि परीक्षितव्यः । अन्योन्यं पुनर्यथाक्रमशो वक्ष्यमाणक्रमेणपरीक्षणे द्वयोरपि गच्छस्य भक्तं प्रत्यख्यातुकामस्य च प्रायश्चित्तं प्रत्येकं चत्वारो गुरुकाः । तथा अपरीक्षणे भवति द्विविधा विराधना, आत्मविराधना संयमविराधना च, तत्र गच्छस्यात्मविराधनाऽसमाधिमरणतः प्रत्यवायसंभवात् भक्तप्रत्यख्यातुः आत्मविराधना असमाध्युत्पादात् संयमविराधना गच्छस्याभावितत्वेन एषणाया असंभवात् । एक्को एक्को व जं पावे एको गच्छे यमनर्थं प्राप्नोति एको वा स भक्तप्रत्याख्याता तन्निमित्तमपि तस्य प्रायश्चित्तमापद्यतेभा. [४२८३] तम्हा परिच्छेणं तु दव्वे भावे य होइ दोण्हंपि। संलेहे पुच्छदायण दिटुंतो अवच्चकोंकणए । वृ. यत एवपरीक्षणे प्रायश्चितं दोषाश्च तस्माद्वयोरपि परस्परं द्रव्ये भावे च भवति परीक्षणं तच्चैवं भक्तं प्रत्यख्यातुकामेन परीक्षानिमित्तं गच्छसाधवो भणिता यथा आनयत मम योग्यं कलमशालिकूरं कथितं क्षीरं, ततो भक्ष्येऽथवाऽन्यद्भोजनं प्रणीतं यत्स्वभावतो रुचिकरंतत् आनयतेति याचते तत्रैवं याचने यदि ते हसन्ति कृष्णमुखा वा जायन्ते तदा ज्ञेयमभाविता एते इती तेषां समीपे न प्रत्याख्यातव्यमथ ते ब्रुवते यद् भणसि तत् कुर्म इति तदा ज्ञेयं योग्य एते इति, तथा गच्छसाधुभिः परीक्षानिमित्तं कलमशालिकरप्रभृतिकमुत्कृष्टं द्रव्यमानेतव्यं, तस्मिन्नानीते यदि स ब्रूते-अहो सुन्दरमानीतं भुञ्जेऽहमिति तदा ज्ञातव्यमेष आहारलुब्ध इति न निस्तरिष्यति वक्तव्यश्च स यदा त्वमाहारगृद्धिं त्यक्ष्यसि तदा ते भक्तपरिज्ञायां योग्यता भविष्यति नान्यदा। अथ स तमुपनीतमाहारं जुगुप्सते किं ममैतेनाहरितेन पर्याप्तं नाहामाहारयामीति तदा ज्ञातव्यमेष निस्तरिष्यति तस्मिन् वक्तव्यं प्रत्याख्याहि, वयं ते निर्यापका इति इह तु याचितस्य द्रव्यसम्पादनमसम्पादनं च सा गच्छस्य द्रव्यत: परीक्षा यत्पुनः सकषायित्वमकषायित्वं वा ज्ञायते तद्भावपरीक्षणं । तथा भक्तप्रत्यारूयातुरप्यानीतसुन्दरस्य ग्रहणमग्रहणं वा द्रव्यतः परीक्षणं, भावतो गृद्धयगृद्धिपरिज्ञानमिति आचार्यस्य तत्परीक्षणमाह संलेहपुच्छइत्यादि यदा स आचार्याणामुपस्थितो भवति भक्तप्रत्याख्यातेनाहं तिष्ठामि। तदास आचार्येण प्रष्टव्यः किमत्र संलिखितं त्वया न वेति ततः स चिन्तयति पश्यति मे अस्थिचर्मावशेषं शरीरं तथापि प्रश्नयति संलिखितं न वेति । एवं चिन्तयित्वा क्रोधे दर्शिते क्षिप्रमगुलिं भक्त्वा दर्शयति पश्य, यत्र किंचिन्मद्यं (रक्त) मांसं वा द्रक्ष्यसि भवति संलिखितं किं वानेति । एवमुक्ते गुरुराह-न तेद्रव्यसंलेखं पृच्छामि कृशशरीरंप्रत्यक्षत एवोपलभ्यमानत्वात्। किन्तु भावसंलेखं । स चाद्यापि न विद्यते इति भावसंलेखं कुरु। श्रूयतां चात्र दृष्टान्तोऽमात्यकोंकणविषये। साम्प्रतमेनामेव गाथां व्याचिख्यातुर्गच्छपरीक्षामाहभा.[४२८४] कलमोयणपयकढियादि दव्वे आनेहि मित्ति उदिते। भावे कसाइज्जंती तेसि सगासे न पडिवज्जे ।। ७. कलमोदनं कलमशालिकूरंपयो दुग्धं क्वथितमादिशब्दात् अन्यस्याप्यभीष्टस्य, भोजनस्य परिग्रहो मम योग्यमानयतेति द्रव्ये उदिते यदि भावे भावतः कषायन्ति कषायं कुर्वन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy