________________
व्यवहार-छेदसूत्रम्-२- १० / २५१ निरवेक्खो जइ तेसि देति ततो ते विनस्संति ॥
वृ. ये पुनर्धृतिसंहननाभ्यां हीनास्ते असद्विभवैस्तुल्यास्तेषां यदि निरपेक्षः सन् यन्निरवशेषं प्रायश्चित्तं ददाति ततस्ते विनश्यति । तथाहि तत्प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः ।
भा. [४२०० ]
ते तेन परिच्चत्ता लिंगविवेगं तु काउ वच्चति । तित्थुदो अप्पा गाणि य तेण चत्तो य ॥
४६६
वृ. यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति ततस्तन निरवशेषप्रायश्चित्तदात्रा परित्यक्ता यथैवमेके एवमन्येऽप्येवमपरेपि ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदस्तथा तेनाचार्येण निरवशेषंअ प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात् साधूनामपगमत आत्मा एकाकीकृत: एकाकितया च त्यक्तश्च शब्दात् गच्छोऽपि त्यक्तस्तथाहि साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहेन कोऽपि वर्तते । ततस्तेऽपि तेन तत्त्वतः परित्यक्तास्तथा अवधाविताः सन्तो ये दीर्घकालं संसारमादि (वि) हिण्डिष्यंते सोऽपि तन्निमित्त इति तस्य महत्पापं तदेव निरपेक्षस्य दोष उक्तः । सम्प्रति सापेक्षस्य गुणमाह
भा. [४२०१]
सावेक्खो पवयणम्मी अनवत्थपसंगवारणाकुसलो । चारित्तरक्खणत्थं आवोउित्ती पउवि सज्झे ॥
वृं. यः पुनराचार्यः प्रवचने सापेक्षोऽनवस्थाप्रसङ्गवारणाकुशलः स चारित्रस्य रक्षार्थं भवति तीर्थस्य चाव्यवच्छेदस्तथोपायेन साधयतीत्यर्थः उपायमेवाह
भा. [४२०२]
कल्लाणगमावन्ने अतरंते जहवकमेण काउं जो । दसकारेंति चउत्थे तद्दिगुणायंबिलतते वा ॥ एक्कासणए पुरिमड्ढा निविगती चेव विगुणविगुणा । पत्तेयासहुवा करेइ वा सन्निगासं तु ॥
भा. [४२०३]
वृ. पञ्च अभक्तार्थाः पञ्च आचाम्लानि पञ्च एकाशनकानि पञ्चपूर्वार्धानि पञ्च निर्विकृतिकानि एतत् पञ्चकल्याणं तत् जयेष्ठापन्ना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान् दश चतुर्थान् कारयन्ति तथाप्यशक्नुवस्तद्विगुणाचाम्लवान् तपः कारयति विंशतिमायामाम्लानि कारयन्तीत्यर्थः । एवंमेकाशने पूर्वार्ध निर्विकृतीर्द्विगुणाः कारयन्ति । किमुक्तं भवति ? विंशत्यायामाम्ले कारणाशकेतौ अशीति पूर्वाद्धिीनि कारयन्ति । तत्राप्यशक्तौ षष्ठिशतं निर्विकृतिकानां कारयन्ति । एतत् पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवच्छित्त्य कर्तुमर्हस्यासमर्थस्य दातुमुक्तमथवायमन्यो विकल्पः करिति व सन्निगासं तु । सन्निकाशं सन्निभं वा कारयति । इयमत्र भावना-यत्तत्पञ्चकल्याणमापन्नस्तन्यमध्यादाद्यं द्वितीयं तृतीयं वा कल्याणकमेकतरं यथाक्रमेण वहति शेषमायाम्लादिभिः प्रदर्शयति । पुनरन्यथानुग्रहप्रकारमाह
भा. [४२०४]
उतियदुगकल्लाणं एगकल्लाणगं च कारेती । जं जो उत्तरति तं तस्स देंति असहुस्स भाति ॥
वृ. यदि वा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेण व्यवच्छित्त्या कर्तुमशक्नुवन्तं चतुःकल्याणकं कारयति । तदप्यशक्नुवन्तं त्रिकल्याणकं यथाप्यसमर्थतया द्विकल्याणकं कारयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org