________________
३१०
व्यवहार-छेदसूत्रम् -२-७/१८२ सम्बन्धोऽनेन सम्बन्धेनायातास्य व्याख्या सागारिक शय्यातर उपाश्रयमवक्रयेण कियत्कालं भाटकप्रदानेन प्रयुञ्जीत व्यापारयेत्स चसागारिकोऽवक्रियकंभाटकेन प्रतिग्राहिकं वदेत् । अस्मिन् अस्मिन् अवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति तस्मादेतत्परिहारेण त्वया भाटकेन गृहीतव्यमेवमुक्ते ससागारिकतयापरिहार्यः परिहर्तव्यः । अथतेन पूर्वस्वामिनासागारिकेणसर्वमपिभाटकेन प्रदत्तंततो न किमपि वदेत् । केवलमवक्रियको वदेत् । अस्मिन्नास्मिन्नवकाशे श्रमणा निर्ग्रन्था परिवसंतु तदा अवक्रियकः शय्यातर इति परिहार्यः परिहर्तव्यः । अथ द्वावपि वदेयातां यथा पूर्वस्वामिनोक्तमेतावत्येकदेशे श्रमणाः सन्तु तावत्यऽमातः साधून दृष्ट्रा अवक्रियको ब्रूयादेतावति मदीयेऽपि प्रदेशे तिष्ठन्तु एवं विक्रिय सूत्रमपि भावनीयं । तदा द्वावपि तौ सागारिकौ शय्यातराविति परिहार्याविति सूत्रद्वयाक्षरार्थः । सम्प्रतिभाष्यकारः[भा.३३०६] वक्कइयसालठाणे चउरोमासा हवंतितनुग्घाया।
दियरातो असिवा पुन भिक्खगतेभुंजणगिलाणे ।। वृ-वक्रयेणकियत्कालंभाटकप्रदानेन निवृत्ता वाक्रयिकीसाचासौशालाचवाक्रयिकशाला तद्रूपे स्थानेशालाग्रहणमुपलक्षणंतेनापद्वारिकास्थाने वागृहे वाइत्यपिदृष्टव्यंयदितिष्ठन्तिसाधवस्तदातेषां प्रायश्चित्तचत्वारोमासाअनुद्घातागुरवोभवन्तियतस्तत्रमे दोषाः ।साशालाअपद्वारिकापूर्वंसंयतानां दत्वापश्चात्कोऽपिग्रहणायरुपकान्ददाति । ममेमांशालामपद्वारिकांगृहंवा कियत्कालंभाटकेन प्रयच्छ ततःसरुपकलोभेनसंयता निष्काशयेत् । यदिवारात्रौवा उभयत्रापिनिष्काशेन स्पर्धकपतेराचार्यस्य वाप्रत्येकंप्रायश्चित्तंचतुर्गुरुकंरात्रौ निष्काशनेश्वश्वापदद्विविधस्तेनतोऽशिवापनं विनाशप्राप्तिरित्यर्थः । अन्यां च वसतिं मार्गयतामप्यलभ्यमानानां जनग यद्येतेषां शुभं कर्म ततः पूर्वोपाश्रयादपि न निष्काशयेरन् । अन्यां वा वसतिं लभेरन् । भिक्खगयत्तिसंयता एकं वसतिपालं मुक्त्वा शेषा भिक्षार्थं गताः । पश्चात्स एकाकी वसतिपालो निष्काश्येत । भुंजणत्ति भोक्तुकामा वा निष्काश्येरन् । तत्र चोभयत्रापि जनगऱ्या ग्लानो वो कोऽपि वर्तते सोऽकाण्डे निष्काशितः कथं क्रियते । तदेवं शालामधिकृत्योक्तमिदानीमुपलक्षणव्याख्यानसूचितान्यपद्वारिकां गृहं च वाक्रयिकमधिकृत्योक्तदोषयोजनांसाक्षादाह[भा.३३०७] उवरिंच गिहं वाविवक्कएणपउंजए ।
पउत्तेतत्थ वाघातो विनासगरिहाधुवा ।। वृ-अपद्वारिकां गृहंवा यत्शय्यातरो वक्रयेण प्रयोजयतितत्रस्थाने तदेवपूर्वोक्तंप्रायश्चित्तं यतो वक्रयेण प्रयुक्ते तत्र गृहादौ बलादकाण्डनिष्काशने सूत्रार्थव्याघातो रात्रौ निष्काशने श्वश्वापदस्तेनैर्विनाशोऽन्यवसत्यलाभे भिक्षागतादिनिष्काशने वा ध्रुवा लोगे गर्दा । एतच्च सर्वं प्रागेव भावितमिति नभूयो भाव्यते । [भा.३३०८] एगदेसंमि वा दिन्नेतन्निस्सहोज तेनगा।
रसालदव्वगिद्धा वासेहमादीउजं करे ।। वृ-शालायाअपद्वारिकायागृहस्यवाएकदेशेदत्ते अन्तराकटकेप्रक्षिप्तेयदितिष्ठन्तितदातन्निश्रयाः संयतनिश्रयाः स्तेनकाश्चौरा भवेयुः । संयतेषु कायिकभूमिं गतेषु स्तेनाः प्रविश्य गृहस्थानां भाण्डकमपहरेयुरथवारसालंरसवत्यत्तत्तत्रद्रव्यंतद्गृद्धाः शैक्षकादयोवायत्कुत्यंतत्कुर्यः ।ततोगृहस्थेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org