SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ३] व्यवहारः किमुक्तं भवति? विविधो विधिना वा हारो व्यवहारः, पृषोदरादय इति विवापशब्दयोर्व्यव आदेशः; संप्रतिवपनहरणशब्दयोरर्थ वक्तुकामस्तदेकार्थिकान्याह ।। [भा.४] ववणंति रोवणंतिय, पकिरण परिसाडणाय एगटुं । हारोत्तियहरणं, तिय एगठंहीरएवति ।। वृ-टुवप्बीजतंतुसंताने उप्यते इति वपनं, इतिशब्दः शब्दस्वरुपपरिसमाप्तिद्योतकः एवमुत्तरेपि, रोपणमितिरुहजन्मनिरोहति कश्चित्तमन्यः प्रयुक्त प्रयोक्तृव्यापारेनिवहेः पोवाइतिहकारस्यपकारः रोप्यते इति परिमाडणा इति, शट रुजायां परिपूर्व परिशटति परिभ्रश्यति तमन्यः प्रयुक्ते पूर्ववत् णिच् परिशाटयते इति परिशाटनानि वेत्यादि अनट् प्रत्य यः आप चसमुच्चये, एगठमिति एतत् शब्दचतुष्ययमेकार्थ एकार्थप्रवृत्ताः परस्परमेते पर्याया इति भावस्तेन यदुक्तं भवति रोपणमिति प्रकरणमिति परिशाटनेति वा तदुक्तं भवति वपनमिति एतावता वपनशब्दस्य प्रदानलक्षणोऽर्थः समर्थितः; हारोति चेत्यादिग्रहणं हार इहर्हरणं ह्रियते इति वा एकार्थं त्रयोप्येते शब्दा एकार्थिका इत्यर्थः तदेव वापशब्दस्य हारशब्दस्य च प्रत्येकमर्थोऽमिहितः,संप्रति तयोरेव समुदितयोरर्थं जिज्ञापयिषुरिदमाह ।। [भा.५] अत्थीपञ्चत्थीणंहाउं एकस्सववइविइयस्स | एएणउववहारो अहिगारो एत्थ उविहीए ।। वृ-अर्थी याचको यः परस्मात्ममेदंलभ्यमितियाचते, प्रत्यर्थी अर्थिनः प्रतिकुलः, किमुक्तंभवति, यः परस्य गृहीत्वा न किमपि तस्मै प्रयच्छति तयोरर्थिप्रत्यर्थिनो विवदमानयोर्व्यवहारार्थस्थेयपुरुषमुपस्थितयोः स व्यवहारपरिच्छेदकुशलो व्यवहारविधापनसमर्थश्च स्थेयो यस्मात् हाउं एकस्सत्तिसूत्रेषष्टी पंचम्यर्थे प्राकृते हि विभक्तिव्यत्ययोऽपिभवति, यदाह, पाणिनिःस्वप्राकृतलक्षणे व्यत्ययोप्यासामिति, यस्य यन्नाभवति, तस्मात् तत् हृत्वा आदाय यस्या भवति तस्मै द्वितीयाय वपति प्रयच्छति, एएणउववहारो इतिएतेन अनंतरोदितेन कारणेनसस्थेयव्यापारो व्यवहारः, किमुक्तंभवति यस्मादेषस्थेयपुरुषो विवादनिर्णयाय एकस्माद्धरति, अन्यस्मै प्रयच्छति, तस्मात्त्व्यापारो वपनहरणात्मकत्वात्व्यवहारइतिएतावतासमुदायार्थकथनंकृतं,सचव्यवहारोविधिव्यवहारोअविधि व्यवहारश्चअधिकारः प्रयोजनंव्यवहारेण विधिनैव विधिपूर्वकणैव तुशब्द एवकारार्थे भिन्नक्रमश्च, ना विधिना, अविधिर्मोक्ष प्रतिपंथित्वात् तदेवमुक्तं, व्यवहारशब्दस्य निर्वचनं तच्च क्रियामात्रमपेक्षयोक्तमधिकृतग्रंथयोजनायांतुकरणव्युत्पत्तिराश्रयणीया, विधिना ह्रियतेचयेनसव्यवहार इति, संप्रतिव्यवहारस्य नामादिभेददर्शनार्थमाह ।। [भा.६] ववहारंमि चउक्कंदव्वे पत्ताइलोइयादी वा । नोआगमतो पनगं, भावे एगठिया तस्स ।। वृ- व्यवहारे व्यवहारविषये चतुष्कं, किमुक्तं भवति चतुर्द्धा व्यवहारस्तद्यथा-नामव्यवहारः स्थापनाव्यवहारोद्रव्यव्यवहारोभावव्यवहारश्चतत्रनामस्थापनेसुप्रतीते,द्रव्यव्यवहारोद्विधा, आगमतो नोआगमतश्च, आगमतो व्यवहारपदज्ञाता तत्र चानुपयुक्तो, नोआगमत स्त्रिधा-ज्ञशरीरभव्यशरीर तद्व्यतिरिक्तभेदात्तत्रज्ञशरीरभव्यशरीव्यवहारोगतौ,ज्ञशरीरभव्यशरीरयोरन्यत्रानेकशोभिहितत्वात् तद्व्यतिरिक्तमाह; दव्वेपत्ताइ लोइयादीवा द्रव्ये द्रव्यविषये व्यवहारो नोआगमतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy