________________
४६४
निबिडकर्मणाऽनर्वाक पारे संसारे क्षिप्तत्वात् । [भा. १७२२]
थिरपरिबाडीएहिं संविग्ोहिं अनिस्सियकरेहिं । कज्जेसु जंपियव्वं अनुओगियं गंधहत्थीहिं । ।
वृ- स्थिराः सूत्रार्थपरिपाट्यो येषां ते स्थिरपरिपाटीकास्तैः संविग्नैः मोक्षाभिलाषिभिरनिश्रितकरैः रागद्वेषपरिहारतो यथावस्थित व्यवहारकारिभिः आनुयोगिक गन्धहस्तिभिरनुयोगधरप्रकागडेः कार्येषु जल्पितव्यं, नशेषैरिति । एतदेव भावयति
[भा. १७१५]
व्यवहार - छेदसूत्रम् - १- ३ / ९४
गुणसंपत्तो ववहरई संघमज्झयारंमि । एयगुणविप्पमुक्के आसायण सुमहती होति ।।
वृ- एतैरनन्तरगाथयोक्तैः स्थिरपरिपाटीकत्वादिभिर्गुणैः सम्प्रयुक्तः सङ्घमध्ये व्यवहरति । एतद्गुणविमुक्ते पुनर्व्यवहरति सुमहती आशातनाभवति । न केवलमाशातना व्रतलोपश्च तथा चाह[भा. १७१६] आगाढमुसावादी वितियतईएय लोवति वएऊ ।
माईय पावजीवी असुईकने कणगदंडे ।।
वृ- आगाढे कुलकार्ये गणकार्ये सङ्घकार्ये वा अनाभाव्यस्या भावस्या वा नाभाव्यस्य ज्ञानतया रागद्वेषाज्ञानस्य वा भणनात् मृषा वदतीत्येवं शील आगाढे मृषावादी द्वितीयतृतीयमृषावादादत्तादानविरतिरूपे व्रते लोपयति । तत्र द्वितीयव्रतलोपो मृषावादभणनात् तृतीयव्रतलोपो ना भाव्यं ग्राहयतोऽनुमतिदोषभावात् तु शुद्धात् शेषाण्यपि व्रतानि लोपयति । एकव्रतलोपे सर्वव्रतलोप इति वचनात् । मायी सूत्रमुल्लङ्घ्य शठोत्तरैर्व्यवहारकरणात् पापजीवी दुर्व्यवहारादिकरणात्परदत्तापराहाराद्युप जीवनात अत एवाशुचिर्मृषावादित्वादिदोषदुष्टत्वात् । अशुचित्वादेव यथा कनकदण्डः संज्ञालिप्तः स्पृष्टुं न कल्पते । एवमेषोऽपि न कल्पते । यावज्जीचमाचार्यत्वादि परेषु स्थापयितव्यमिति ।
Jain Education International
उद्देशक-३ : समाप्त
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहारसूत्रे तृतीचोद्देशकस्य संधदासगणि विरचितंभाष्यं एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
३६/१ तृतीयं छेदसूत्रं " व्यवहारं" समाप्तम्
For Private & Personal Use Only
www.jainelibrary.org