________________
४५६
व्यवहार - छंदसूत्रम् - १-३/९४
पर्पदं गृह्णाति । सूरिगह- कुशली दक्षोऽनेनोपायेन गृह्णाति समीचीनासमीचीनां वा जानाति तमेवोपायमाह
[ भा. १६६७ ]
वृ- पर्यन्नाम व्यवहार्यौ द्वावपि पक्षौ तौ ब्रूते यदि द्वावपि पक्षी मध्यस्थौ भवतो मध्यस्थता रागद्वेपाकरणतो भवति । तत आह-निभृतौ निर्व्यापारी रागद्वेषौ ययास्तां रागद्वेपनिभृतौ क्लान्तस्य पाक्षिकः परनिपातः मुखादिदर्शनात् । ततः सुखं व्यवहरितुं व्यवहरणं भवति । एवं पर्पद्ग्रहणं कृत्वा ये दुर्व्यवहारिणस्तान्निक्षिपन्निदमाह
[भा. १६६८ ]
उसन्नचरणकरणे सच्चव्ववहारया दुसद्दहिया ।
चरणकरणं जहंतो सच्चववहारयं जहइ ।।
वृ- अवसन्ने शिथिलतां गते चरणकरणे व्रतश्रमणधर्मादिपिण्डविशाधिसमित्यादिरूपं यस्य सोऽवसन्नचरणकरणः तस्मिन् सत्यव्यवहारता यथावस्थितव्यवहारकारिता दुःश्रद्धेया यतञ्चरणकरणं जहन् त्यजन् सत्यव्यवहारतामपि जहाति
[ भा. १६६९ ]
परिसाववहारिया मज्झत्था रागदोसनीहूज्जा (या) । जह होति दोविपक्खा ववहरिडं तां सुहं होइ ।।
जइया नेणं चत्तं अप्पाणतो नाणदंसणचरितं । तइया तस्स परसुं अनुकंपा नत्थि जीवसु ।।
वृ- यदानेनात्मनः सम्बन्धिज्ञानदर्शनचारित्रं त्यक्त तदा तस्य परेपु जीवेष्वनुकम्पा नास्ति यस्य ह्यात्मनो दुर्गतौ प्रपततां नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेदिति भावः । भवसयसहस्सलद्धं जिनवयणं भावतां जहंतस्स । जस्स न जायं दुक्खं न तस्स दुक्खं परे दुहितं ।।
[भा. १६७० ]
वृ- यस्य भवशतसहस्त्रैः कथमपि लब्धं जिनंवचनं भावतः परमार्थती जहतस्त्यजतां दुःखं न जातं न तस्य परं दुःखिते दुःख यस्य ह्यात्मन्यपि दुःखिते न पीडा तस्य परं दुःखिते कथं स्यादिति भावः । [ भा. १६७१] आयारे वहुती, आयारपरुवेणा असंकेउं । आयारपमिठ्ठो सुद्धचरणदेसणे भइतो ।।
बृ- आचारे वर्तमानः खल्वाचारः प्ररूपणा अशक्योऽशङ्कनीयो भवति, यः पुनराचारपरिभ्रष्टः सशुद्धचरणदेशनं यथावस्थितचरणप्ररूपणा सभक्तो विकल्पितः शुद्धचरणप्ररूपणाकारीति वा न वेत्यर्थः । एवं दुर्व्यवहारिणामाक्षेप कृते ते ब्रूयुर्वयमप्रमाणीकृता युष्माभिः । ततः स गीतार्थः प्राह[भा. १६७२] तित्थयरे भगवंते, जगजीववियाणए तिलोगगुरु ।
जोन करेइ पमाणं, न सो पमाणं सुबहराणं ।।
वृ- तीर्थकरान् भगवती जगज्जीवविज्ञापकान् सर्वज्ञानित्यर्थः । त्रिलोकगुरुन् यो न करोति प्रमाणं न स प्रमाणं श्रुतधराणां । ।
[ भा. १६७३ ]
तित्थयरे भगवंते जगजीववियाणए तिलोकगुरु ।
जो उकरेइ पमाणं, सो उपमाणं सुयहराणं ।।
वृ- तीर्थकरान् भगवती जगज्जीवविज्ञायकान् त्रिलोकगुरुन् सर्वज्ञानित्यर्थः यस्तु करोति प्रमाणं, स प्रमाणं श्रुतधराणां । एवं धूलीजङ्घन दुर्व्यवहारिष्वपालब्धेषु ते ब्रूयुंखं सङ्घमप्रमाणीकुरुथ यूयमिति ।
ततः प्राह
[भा. १६७४ ]
Jain Education International
संघी गुणसंघाता संघायविमोयगोय कम्माणं । रागद्दोसविमुक्की होड़ समोसव्वजीवाणं ।।
For Private & Personal Use Only
www.jainelibrary.org