________________
[भा. १६५२]
व्यवहार - छेदसूत्रम् - १-३/९४ घुट्ठमि संघकज्जे धूलीजंघो विज्जो न एज्जाहि । कुलगणसंघसमवाए लग्गति गुरुगे चउम्मासे ।। न कहिंति अकज्जं तं पावइ सइ बाले आगच्छंतो । अनाइं ताव तो हानमादिजं कुज्ज तं पावे ।।
[भा. १६५३ ]
वृ- घुष्टे घोषिते सङ्घकार्ये संघसमवाये धूलीजंघोऽपि आस्तामन्य इत्यपि शद्वर्धाः । धूल्या धूसरे जङ्घे यस्य स धूलीजंघः शाकपार्थिवादिदर्शनात्मध्यपदलोपी समासः । संघसमवायघोषणामाकर्ण्य प्राधूर्णकेनापि पादलग्रायामपि धूलावप्रमत्ततया त्वरितमवश्यमागन्तव्यमिति ज्ञापनार्थं धूलीजंघोऽपीत्युपादानं सति बले यो न आगच्छेत् कुलसमवाये गणसमवाए सङ्घसमवाए वा गुरुके चतुर्मासे लगति तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः । न केवलमेतत् किन्त्वन्यदपि । तथा चाह-जं काहिंत्यादि सति बले आगच्छन् व्यवहारोच्छेदकार्यकरणतो वान्यैरन्यथाच्छिन्ने व्यवहारे यदकार्यं ते व्यवहारार्थिनः करिष्यन्ति तत् प्राप्नोति तन्निमित्तमपि प्रायश्चित्तं तस्यापद्यते इत्यर्थः । अन्यदपि चापमानवशतो यदवधावनादि कुर्यात्तदपि प्राप्नोति ।
[ भा. १६५४ ]
तम्हाउ संघसद्दे घुट्टे गंतव्व धूलि जंघेण । धूलीजंघनिमित्तं ववहारो उट्ठितो सम्मं ।।
वृ- यत एवमनागमने दोषास्तस्मात् सङ्घशद्धे घुष्टे घोषिते धूलीजंघेनाप्यवश्यं सति बले गन्तव्यं । यतः कदाचित् धूलीजंघनिमित्तं व्यवहारः सम्यगुत्थितो भवेत् । यथा प्राघूर्णको गीतार्थो धूलीजङ्घः समागतः सन् यदि भणिष्यति तत्प्रमाणमिति ।
[भा. १६५५ ]
४५४
तेन य सुयं जसो तेन घयादीहिं संगहीतो उ ।
जाइ इवितहंमाई पावोवजीवो (वी) उ ।।
वृ- तेन च धूलीजङ्केनागच्छतैव कथकस्यापिपार्श्वे श्रुतं यथैष वास्तव्योव्बवहारच्छेत्ता तैलघृतादिभिः संगृहीतः सन् मायी अभीक्ष्णं मायाप्रतिसेवी पापोपजीवी कोण्टलाद्युपजीवी वितथमुत्सूत्रं कार्याणि नयति ।
[ भा. १६५६ ]
सो आगतो उसंतो वितहं दद्दूण तत्थ ववहारं । समएण निवारेई कीस इमं कीरइ अकज्जं ।।
वृ- एवं श्रुत्वा समागतः सन् तृष्णीकस्तावदास्ते यावत्सूत्रेण निर्दिश्यमानं व्यवहारं पश्यति तं च तथाभूतं वितथं व्यवहारं दृष्ट्रा समयेन सिद्धान्तेन निवारयति । यदकस्मादिदमकार्यं क्रियते, न केवलमेवं निवारयति किन्त्वेतदपि वक्ति, ।
[ भा. १६५७ ] निद्धमहुरं निवायं, वीणियमवि जाणएसुजंपतो । सचित्तखेत्तमीसे अठधर निहोडणा (णं) विहिणा । ।
वृ- सचित्तनिमित्तव्यवहारे स्वेत्तत्ति क्षेत्रनिमित्ते व्यवहारे य दुर्व्यवहारिणस्तेषां प्रतिदिवसनिमित्तं अविजाणएसुत्ति येऽपि च साधवो न जानन्ति । यथा घृतादि अनुवृत्ता वितथमेते व्यवहरन्ति तेष्वविजानत्सु विज्ञाननिमित्तमेवं जल्पति । अहो स्निग्धो व्यवहारः । किमुक्त भवति ? तैलघृतादिसंगृहीत एवमेते अन्यथा व्यवहरन्तीति । अथ गुडशर्करादिभिः गृहीता वितथव्यवहारिणः ततो जल्पति अहो मधुरो व्यवहारः । यदि पुनरुपाश्रयो निर्वाती लब्धः शीतप्रावरणानि वेति वितथं व्यवहरन्ति । तत आह निर्वातो व्यवहारः । अथ कृतिकर्मविनयादिभिः संगृहीतास्ततो ब्रूते । अहो विनीतो व्यवहारः । एवं स्निग्धं मधुरं निवातं व्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशन निहोडणं निवारणं करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org