________________
उद्देशक :
: ३, मूलं : ६६, [भा. १४०१]
भिक्खादि वियादुवे, पच्चयहेउं च दो हेउं ।।
वृ- एकः पार्श्वे समीपे संज्ञापुरीषोत्सर्गे आलप्तमालपनं कस्याप्याचार्यः कारयेदित्यादिकार्यार्थं तिष्ठति । द्वौ च भिक्षायामादिशद्वादौषधानयनादौ विचारे बहिर्भूमौ गच्छतः यदि वा सूत्रार्थः संवादप्रत्ययहेतोर्द्वी भावेतां, सम्प्रति प्रागुक्तायामेव चतुर्भड्यां विशेषं वक्तुकाम आह दव्वे भावे पलिच्छद दव्वे तिविहो उ होइ चित्तादी । लोइय लोउत्तरितो दुविहो वावारजुत्तियरो ।।
[ भा. १४०२ ]
वृ- परिच्छदो द्विविधो द्विप्रकारो- द्रव्ये भावे च । तत्र द्रव्ये द्रव्यपरिच्छदस्त्रिविधो भवति चित्तादि सचितो अचित्तो मिश्रश्च । एष त्रिविधोऽपि द्रव्यपरिच्छदो भूयो द्विधा-लौकिको लोकोत्तरिकश्च । तत्र लौकिकःसचितः त्रिविधो द्विपद चतुष्पदापदभेदात् । अचित्ते हिरण्यादि मिश्रसचित्ताचित्तसमवायेन, लोकोत्तरिकः सचित्तो द्रव्यपरिच्छदः शिष्यादिः । अचित्त उपधि मिश्रः सचित्ताचित्तसमवायतः । तत्र लौकिके लोकोत्तरिके च द्रव्यपरिच्छेदे द्विधा, यथा-व्यापारयुक्त इतरो व्यापारायुक्तः तत्र लौकिके व्यापारयुक्ते च निदर्शनमाह
7
[ भा. १४०३]
४०५
दो भाउया विरिक्का, एक्को पुन तत्थं उज्जतो कम्मे । उचितभत्तिप्पदानं अकालहीनं च परिवड्डी ।।
वृद्वौ भ्रातरौ । तौ परस्परं विरक्तौ धनं विरिच्य पृथक्पृथक् जातावित्यर्थः । तत्र तयोर्द्वयोर्मध्ये पुनरेकः कृषिं कुर्वन् कर्मणि उद्युक्तः । विमुक्तंभवति ? स्वयं कर्म करोति भूतिकांश्च कारयति, भृतिकानां वा कालपरिहीनं उचितां परिपूर्णां भृतिं मूल्यं ददाति । अकालपरिहीनं च परिपूर्ण भक्तं । एवं च तस्य व्याप्रियमाणस्य कृषेः परिवृद्धिरजायत साधुवादश्च ।।
[भा. १४०४ ]
कयमकयंनजाणइ न य उज्जमए सयं न वावारो ।
भत्तिभत्तकालहीने दुग्गहियकिसीए परिहानी ।।
वृ- द्वितीयो व्यापारायुक्तो भृतिकैः किं कर्मकृतं किं वा न कृतमिति नैव जानाति स्वयमपरिभावनादन्यतंश्चाप्रच्छनात् न च स्वयं कर्मकरणायोद्यच्छति न वा मध्ये स्थित्वा भृतकान् व्यापारयति भृतिभक्ते च भृतिभृतकानां कालहीने ददाति । किमुक्तं भवति ? भृतिमपरिपूर्णां ददाति कालहीनां च एवं भक्तमपि तत एवं दुर्गृहीतायाः कृषेस्तस्य परिहानिरभूदसाधुवादश्चसम्प्रति लोकोत्तरिकं द्रव्यपरिच्छदे व्यापारयुक्तमाह[भा. १४०५ ]
जो जाए लद्धीए उववेओ तत्थ तं निजोइति । उवकरणसुए अत्थे, वादे कहणेगिलाणेय ।।
वृ- यो यया लब्ध्या उपपेतो युक्तो वर्तते, तत्र तं नियोजयन्ति सूरयस्तद्यथा उपकरणे इति उपकरणोत्पादने सुते इति सूत्रपाठलब्ध्युपेतं सूत्रपाठे अर्थग्रहण सलब्धिसमन्वितं परवादिमथने धर्मकथनलब्धिपरिकलितं धर्मकथने, ग्लानप्रतिचरणं पटीयसं ग्लानप्रतिजागरणे ।
[ भा. १४०६ ] जह जह वावारयते जहा य वावारिया न हीयंति ।
Jain Education International
तह तह गणपरिवड्डी निज्जरवड्डीवि एमेव ।।
वृ- यथा यथा तत्तल्लब्ध्युपेतान् तत्कर्मणि व्यापारयन्ति यथा यथा च व्यापारा न हीयन्ते देशकाल स्वभावौचित्येन व्यापारणात्तथा तथा गणस्य गच्छस्य परिवृद्धिर्भवति । निर्जरावृद्धिरप्येवमेव निर्जरापि
For Private & Personal Use Only
www.jainelibrary.org