SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१-३/६६ सचैतद्गुणसम्प्रयुक्तस्तदा भवति यदिप्रतिबोधादिभिर्वक्ष्यमाणगुणैर्युक्तो भवति, प्रतिबोधादयो गुणाः प्रतिबोधकादिदृष्टान्तेभ्यो भावनीया इति, तानेव प्रतिबोधकादीन् दृष्टान्तानुल्लिङ्गयति ।। [भा. १३६७ ] पडिबोहग देसिय सिरिधरे य निजामगे य बोधव्वे । तत्तो य महा गोवो एमेया पडिवत्तिओ पंच ।। वृ- प्रतिबोधकः सुप्तोत्थापकः, देशको मार्गदशी, श्रीगृहिको भाण्डागारनियुक्तो निर्यामकः समुद्रे प्रवहणनेता तथा महागोपोऽतीवगोरक्षणकुशल एवमेता अनन्तरोदिताः पञ्च प्रतिपत्तयोऽधिकृतार्थे आभिरिति प्रतिपत्तयः उपमा । तत्र प्रतिबोधकोपमां भावयति [भा. १३६८ ] ३९६ जह आलित्ते गेहे, कोइ पसुत्तं नरं तु बोहेज्जा । जरमरणादिभयत्ते संसारधरंमि तह उजिए ।। वृ- यथा आसमन्ततो दीप्ते गृहे कोऽपि परमबन्धुः प्रसुप्तं नरं प्रबोधयेत्तथा संसारगृहे जरामरणप्रदीप्ते जीवान् अविबुद्धान्भावसुप्तान् प्रबोधयति । सस्थापनीयो गणधरोदेशितस्तीर्थकरैः । उक्तः प्रतिबोधक दृष्टान्तः । सम्प्रति देशकादिदृष्टान्तमाह [भा. १३६९ ] बोहेइ अपडिबुद्धे देसियमाईवि जोएज्जा | एयगुणविप्पही अपलिच्छन्ने य न धरेज्जा ।। वृ- बोहेइ अपडिबुद्धे इति पूर्वगाथाव्याख्यायां व्याख्यातमेव देशकादीनपि दृष्टान्तान् योजयेत् । तांश्चैवं-यो ग्रामादीनां पन्थानमृजुकं क्षेमेण प्रापयति स देशक इष्यते । एवं ज्ञानादीनामविराधनां कुर्वन् यो गच्छं परिवर्धयति स गणधरः स्थापनीयो न शेषः, । श्रीगृहकदृष्टान्तभावना-यथा यो रत्नानि सुनिरीक्षितानि करोति स श्रीगृहे नियुज्यते । एवं यो ज्ञानादीनामात्मसंयमयोश्चाविराधनया गणं परिवर्धयति स तादृशो गणस्य नेता कर्तव्यः, । निर्यामकदृष्टान्तभावना-यथा-निर्यामकस्तथा कथं-च नापि प्रवहणं वाहयति यथा क्षिप्रमविध्नेन समुद्रस्य पारमुपगच्छति एष एव च तत्वतो निर्यामक उच्यते, शेषो नाम धारकः, एवं य आचार्यस्तथा कथंचनापि गच्छं परिवर्धयति । यथा क्षिप्रमविध्नेनात्मानं गच्छंच संसारसमुद्रस्य पारंनयतिं । स तत्वतो गणधरः शेषो वै नाममात्रपरितुष्टः । महागोपदृष्टान्तभावनायो गोपो गाः स्वापदेषु विषमेषु वा प्रदेशेष्वटव्यां वा पतंतीर्वारयित्वा च क्षेमेण स्वस्थानमानयति स महागोप उच्यते । एवमाचार्योऽपि यो गणमस्थानेषु प्रत्यन्तदेशादिषु विहारिणं धारयति पूर्वाभ्यासप्रवृत्तानि च प्रमादस्खलितान्यपनयति स ताद्दशो गणपरिवर्धकः करणीयो नशेषः । अथवा प्रतिबोधको नाम गृहचिन्तकउच्यते यो गृहं चिन्तयन्यो यत्रयोग्यस्तं तत्रव्यापास्यति । तत्र व्याप्रियमाणं चप्रमादतः खलन्तंनिवारयति स गृहचिन्तक उच्यते । एवं यः स्थापितोयो यत्र योग्यस्तं तत्र नियुङ्क्ते । नियुङ्क्तांश्च प्रमादतः स्खलतः शिक्षयति स स्थापनीयो गणधरपदे नेतर इति यश्चैतदुणविप्रहीणः प्रतिबोधादिगुणविकल्पो यश्च द्रव्यतो भावतश्चेत्यर्थः छन्नः परिच्छदहीनः स गणं न धारयेत् । न स गणधरपदे स्थापनीय इति भावः ॥ 7 [भा. १३७०] Jain Education International दोहिं वि अपलिच्छन्ने, एकेक्वेणंच अपलिच्छन्नेय । आहरणा होति इमे, भिक्खुमि गणं धरंतमि ।। 4 बृ-द्रव्यतोऽपरिच्छन्नोभावतश्चापरिच्छन्न इत्यादिचतुभ्रङ्गी प्रागेवोपदर्शिता । तत्र भिक्षौगणंधारयति द्वाभ्यामपि द्रव्यतो भावतश्च नेतव्यः । अपरिच्छन्ने परिच्छदरहिते प्रथमभङ्ग उपात्तः । एकैकेन वा For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy