________________
उद्देशक : २, मूलं:६३, [भा. १३३६] .
३८७ अनुप्पदाउंवा कप्पइसे लेवं अनुजाणवित्तिए अनुजाणहभंते ।लेवाए, एवंसेकप्पइलेवंसमासेवित्तए।
वृ-अथास्यसूत्रस्यकः सम्बन्ध उच्यते[भा.१३३७] एसावूढेमेरा होइअबूढे अयंपुन विसेसो ।
सुत्तेनेव निसिद्धो होइअनुन्ना उसूत्तेण ।। वृ-एषाअनन्तरसूत्रप्रतिपादितामर्यादा स्थितिर्भवतिव्यूढेपरिहारतपसि । अव्यूढेपुनः परिहारतपसि अयमधिकृतसूत्रेण प्रतिपाद्यमानोमर्यादायाविशेषः, एषपूर्वसूत्रेणसहाधिकृतसूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-परिहारकल्पे स्थितः परिहारकल्पस्थितः, तस्य परिहारकल्पस्थितस्य भिक्षोर्न कल्पते अशनं पानंखादिमं स्वादिमं वा अन्यस्मै साक्षात्स्वहस्तेन दातुमनुप्रदातुंवा परम्पर केन प्रदातुमनुशब्दस्यपरम्परकद्योतकत्वात् । अत्रैवानुज्ञातमाह ।थेराणयमित्यादियदिपुनःस्थविराणामिति वाक्यालङ्कृतौ वदेयुः इमं परिहारकल्पस्थितं भिक्षु, अहो आर्य! त्वमेतेभ्यो देहि परिभाजय अनुप्रदेहि वा, ।एवंस्थविरैरनुज्ञातेसतिसेतस्यकल्पतेदातुमनुप्रदातुंवादाने अनुप्रदानेचतस्यहस्तोविकृतिद्रव्येण (प्रश्रेणि) खरण्टितो भवति ततः से तस्य कल्पते । लेपविकृतिं हस्तगतं अनुप्रज्ञापयितुं यथा भदन्त यूयमनुजानीथ, लेप खरंटित हस्तं लेवाए इतिसमासेवितुमेवमनुज्ञापने कृते सति से तस्य कल्पते लेपं विकृतिहस्तगतांसमासेवितुमुपलक्षणमेतदन्यदपियदुद्धरितंतदप्यनुज्ञातंसत्कल्पतेसमासेवितुमिति सूत्रसंक्षेपार्थः, व्यासार्थं तु भाष्यकृत् विवक्षुः प्रथमतः सामान्यत आह सूत्रेण चेत्यादि सूत्रेणैव दाने अनुप्रदानेच प्रथमतो निषिद्धे तदनन्तरंतेनैव सूत्रेणदाने अनुप्रदानेच भवत्यनुज्ञा एवं संक्षेपतःसूत्रार्थे कथितेसत्याह-- [भा.१३३८] किह तस्स दाउ किज्जइचोयगसुत्तंतुहोइकारणियं ।
सोदुब्बलो गिलायइतस्स उवाएणदेतेवा ।। वृ-किहकथंकेन प्रकारेणतस्य परिहारकल्पस्थितस्य भिक्षोर्दातुं क्रियतेअशनादिकंतदानकरणस्य कल्पविरुद्धत्वात् । अत्र सूरिराह-हे चोदक ! सूत्रमिदं भवति कारणिकं कारणेन निवृत्तं कारणिकं कारणमधिकृत्य प्रवृत्तमित्यर्थः । तदेव कारणमाहसो दुब्बलो इत्यादि स परिहारकल्पस्थितो भिक्षुर्दुर्बलस्तपः शोषितशरीरत्वादत एव पदे ग्लायति । ततस्तस्यानुकम्पनार्थमेवमनेनोपायेन दानानुप्रदानकारापणलक्षणेन विकृतिस्थविरा ददतिप्रयच्छन्ति । ततएषापिपरिहारकल्पसमाचारीति न कश्चिद्दोषः सम्प्रति यथा तस्य दानमनुप्रदातुंवा करणीयं भवति येन च कारणेन स्थविरा अनुजानते तदेतदभिधित्सुराह[भा.१३३९] परिमिय असतिअनोसोविय परिभायणमिकुसलो उ ।
- उच्चूरपउरलंभे अगीयवामोहननिमित्तं ।। [भा.१३४०] तवसोसीयमज्झोवा तउय तप्भावितोभवे अहवा ।
थेरानाऊणेवं वदंतिभाएहितंअज्जो ।। वृ-इहयद्दानमनुप्रदानवापरिभाजनमुच्यतेतच्चयथासंभवतितथोपपद्यतेसाधुभिः सर्वैस्तपोविशेष प्रतिपन्नवर्जितरेकत्रमण्डल्यांभोक्तव्यम् । किंकारणमिति चेदुच्यते-इह द्विविधासाधवो लब्धिमन्तो लब्धिरहिताश्च । तत्रयेलब्धिरहितास्ते बहिर्गतास्तथाविधं प्रायोग्यं न लभन्ते, मण्डल्यांतूपविष्टानां लब्धिमत्साधुसङ्घाटकानीतपरिभाजनेनतेषामन्येषामपिच बालशैक्षवृद्धग्लानादिनांप्रायोग्यं भवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org