________________
३६४
[[ भा. १२३५ ]
अहवा उच्चारागतो कुडंगमादी कडिल्लदेसम्मि । वेत्ती कयं अजं जेवज्रेण सह मएवि ।।
वृ- अथवेत्यभ्याख्यानस्य प्रकारान्तरप्रदर्शने कुडङ्गादौ कडिल्लदेशे गहन प्रदेशे उच्चाराय गतस्तत्र ज्येष्टार्येण सह मयापि कृतमकार्यमिति । तस्माद्व्रत्तानि मम साम्प्रतमारोपयत । एवमुक्ते सूरिभिः स एवं वक्तव्यः ।
[भा. १२३६ ]
व्यवहार - छेदसूत्रम् - १-२ / ५९
तम्मागते वयाइं दाहामो देति वा तुरंतस्स । भूयत्थे पुन नाए अलियनिमित्तं न मूलंतु ।।
वृ-योऽसौ त्वया अभ्याख्यातः स यदा आगतो भविष्यति तदा तस्मिन्नागते व्रतानि ते दास्यामः । अथ स त्वरमाणो ब्रूते । भगवन् कुशाग्रस्थितवाताहतजलबिन्दुरिवातिचञ्चलं जीवितमिति न शक्यते । क्षणमाणमप्यव्रतेन स्थातुमित्यधुनैव मह्यं दीयतां व्रतादीनीति तस्यैव त्वरमाणस्य ददति व्रतानि वा शब्दो विकल्पार्थः । अत्र पुनर्भूतार्थो गवेषणीयः किमयं सत्यं ब्रूते उतालिकं तत्र यथा भूतार्थो गवेषणीयस्तथानन्तरमेव वक्ष्यते । भूतार्थे च गते ज्ञाते यदि सत्यं सदा द्वयोरपि मूलंदीयते । अथालीकं ततो योऽभ्याख्यातः सशद्धः इतरत्वस्य त्वभ्याख्यातुर्मूलं न दीयते किन्त्वलीकनिमित्तं मृषावादप्रत्ययं चतुर्गुरुकं प्रायश्चित्तमिति सम्प्रति यथा भूतार्थो ज्ञायते तथा प्रतिपिपादयिषु र्द्वारगाथामाहचरियपुच्छणपेसण कावालियतवो संघो जं भणति ।
[भा. १२३७]
भंगो हि निरिक्खी देवयाव तहियं विही एसो ।।
वृ-तत्र भूतार्थे ज्ञातव्ये एष विधिश्चरिका परिव्राजिका तस्याः प्रच्छनाय वृषभारणां प्रेषणं साचेत् सत्यवादिनी न मन्यते । ततस्तौ द्वावपि पृथगुपाश्रये प्रेष्य तत्रवृषभास्तत्स्वपगवेषणाय कापालिकरुपेण प्रेष्यन्ते । कापालिकग्रहणमुपलक्षणं तेन स रजस्कादिरूपेणापीत्यपि द्रष्यव्यम् । एवमपिभूतार्थानिर्णये तवोत्ति तपस्वी कार्योत्सर्गेण देवतामाकम्प्य पृच्छति । एतस्यापि प्रकारस्याभावे संघो मेलयित्वा प्रच्छनीयस्तेन च निरीक्षणो निरीक्षकानधिकृत्य चतुर्भङ्गी केचित् तथाभूतं तथाभावेन पश्यन्तीत्यादिरुपा वक्ष्यमाणा प्ररुप्यते । गायानां पुंस्त्वं प्राकृतत्वात् । सा च चतुर्भङ्गी भद्रप्रान्तदेवता आश्चित्य संभवति । एष द्वारगाथासंक्षेपार्थः साम्प्रपमेनामेव गाथां विवरीषुराह
[ भा. १२३८ ]
आलोइयंमि निउणे कज्जुं स सीसए तयं तव्वं ।
पडिसिद्धिमि य इयरो भणति बियं पिते नत्थि ।।
वृ- अभ्याख्यातः साधुरागतः सन् आलोचयतिप्रथमालिकां यावन्न जानामि द्वितीयः सङ्घाटकक्वापि गत इति । केवलोऽहमागतोऽस्मि तत् आचार्या ब्रुवते । सम्यगालोचय ततः स स्मृत्वा आलोचयति यावत्तस्मिन्नपि तृतीये वारे तदालोचितं ततस्त्रिगुणे त्रिः कृत्वा आलोचिते यदि न प्रतिसेवितमित्यालोचयति । ततो येन कारणेन त्रीन् वारानालोचापितस्तत्कार्यं करणं सर्व से तस्य कथ्यते । शिष्यते यथा स एष तवसङ्घाटकस्त्वया सह किञ्चिन्मात्रं हिण्डित्वा समागतो ब्रूते- ज्येष्ठार्येण आर्यागृहे वृक्षविषमे वा क्वचित्प्रदेशे कृतमकार्यं तत्संसर्गतो मयापि संसृष्टकल्प उपजीवित इति ततोऽभ्याख्यातः साधुर्वदति न मया प्रतिसेवितमेवं तेन प्रतिषिद्धे प्रतिसेविते इतरोऽभ्याख्यानप्रदाता भणति - अहो ज्येष्ठार्य तव द्वितीयमपि व्रतं नास्ति । आस्तां चतुर्थमित्यपिशब्दार्थः ।। दोपि अनुमणं चरियावसहे पुच्छियपमाणं ।
[भा. १२३९]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org