SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३५० व्यवहार - छेदसूत्रम्-१-२/५२ वृ- अर्थेन अर्थितया जातं कार्यं यस्य सम्बन्धः विवक्षायामत्र षष्ठी येनेत्यर्थः । सोऽर्थजातः गमकत्वादेवमपि समासः । उपलक्षणमेतत् । तेनैवमपि व्युत्पत्तिरवसातव्या अर्थःप्रयोजनं जातोऽस्येत्यर्थजातः: पक्षद्वयेऽपि पक्षद्वयेऽपि जातस्य परनिपातः सुखादिदर्शनात स पुनः कथं ग्लायतीति चेदत आहः-स पुनः प्रथमतः प्रथमव्युत्पत्तिसूचितः संयमभावात् चाल्यमानः कंप्यमानः परिग्लायति । द्वितीयव्युत्पत्तिपक्षे प्रयोजनानिष्पयाग्लायति, तस्योभयस्यापि अगिलया प्रागुक्तस्वरूपया वक्ष्यमाणं वैयावृत्त्यं करणीयं यावत् रोगातङ्कात् संयमभावचलनात् प्रयोजनानिष्पादनाच्च विप्रमुक्तस्यात् । ततः पश्चात्यत्किमप्याचरितंभीषणादितद्विषये यथालधुस्वकोव्यवहारःप्रस्थापितः स्यादिति सम्प्रति नियुक्तिकृत्येषुस्थानेषुसंयमस्थितस्याप्यर्थजातमुत्पाद्यतेतान्यभिधित्सुराह[भा.११६८] सेवगपुरिसेओमे आवन्न अणत्तबोहिणेतेने । एएहिं अट्ठजातंउप्पज्जइसंयमट्ठियस्स ।। वृ- सेवकपुरुषे सेवकपुरुषविषये एवमेव ओमेदुर्भिक्षे तथा आपन्ने दासत्वं समापन्ने तथा विदेशान्तरगमने उत्तमर्णेनाप्ते तथा बोधिकैरपहरणे स्तेनैरपहरणे च बोधिका अनार्यम्लेच्छाः स्तेना आर्यजनपदजाताअपिशरीरापहारिणः एतैः कारणैरर्थजातंप्रयोजनजातमुत्पद्यते । संयमस्थितस्यापीति एव नियुक्तिगाथासंक्षेपार्थः । साम्प्रतमेतामेव विवरीतुकामः प्रथमतः सेवकपुरुषद्वारमाइ[भा.११६९] अपरिगहगणियाए सेवगपुरिसोउकोइआलत्तो! सोतंअतिरागेणंपणयए अट्ठजायाय ।। [भा.११७०] सारूविणित्तिकाउं, रणाणीया उखंधवारेण । इयरोतीए विउत्तो, दुक्खत्तोतेय निक्खंतो ।। [भा.११७१] पच्चागयतंसोउं, निक्खंतंबेइगंतूणंतहियं । बहुयंमे उवउत्तं, जइदिज्जइ तो विसज्जामि ।। वृ-न विद्यतेपरिग्रहः कस्यापि यस्याः सा अपरिग्रहाः सा चासौ गणिका च अपरिग्रहगणिका तया कोऽपि राजादीनांसेवकः पुरुषः आलप्तः संभाषितः आलप्य चस्वगृहमानीतः, ततः सा अर्थजाता सती तं पुरुषमतिरागेणातिरागवशात् प्रणयते प्रसादयति, अन्यदा सा गणिकारूपिणी अतिशयेन रूपवतीतिकृत्वा राज्ञास्कन्धावारेणकटकेनगच्छताआत्मनासहानीता, इतरोऽपिचसेवकपुरुषस्तया गणिकया वियुक्तो दुखार्तः प्रियाविप्रयोगपीडितो निष्क्रान्तस्तथा रूपाणास्थविराणामन्तिकेप्रव्रज्यां प्रतिपन्नः, ।साच वेश्या राज्ञासहप्रत्यागतातंपुरुषं न पश्यतिगवेषयितुमारब्धा । ततः कस्यापिपार्थे तं निष्क्रान्तं श्रुत्वा यत्र तत्र स तिष्ठति । तस्या वसतौ गत्वा तान् स्थविरान् ब्रूते । बहुकं प्रभूतं मम तु द्रव्यमनेनोपयुक्तमात्मोपयोगंनीतंभुक्तमित्यर्थः । तद्यदिदीयतेततो विसृजाभि । एवमुक्तेयत्कर्तव्यं स्थविरैस्तदाह[भा.११७२] सरभेदवणभेयं अंतद्धाणं विरेयणं वावि । वरधनुमयवेस पुस्सभूती कुसलो सहुमेय झाणंमि ।। वृ-गुटिकाप्रयोगतस्तस्य स्वरभेदंवर्णवेदंवास्थविराः कुर्वन्ति । यथासातंन प्रत्यभिजानातियदि वाग्रामान्तरादिप्रेषणेन अन्तर्धानं व्यवधानं क्रियते, । अथवा तथा विधौषधप्रयोगतो विरेचनं कार्यते तेन स ग्लान इव लक्ष्यते, कृच्छेणैष जीवतीति ज्ञात्वा सा तं मुञ्चति । अथवा शक्तौ सत्यां यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy