________________
.३००
व्यवहार - छेदसूत्रम्-१-१/३५ सततोपयोगवन्त इति वाक्यशेषः । तथा संग्रहः शिष्याणां सङ्ग्रहणमुपग्रहस्तेषाभेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशला एतादृशा एवंरूपाः प्रवर्तिनोभवन्ति । यथोचितं प्रशस्तयोगेषु साधुन् प्रवर्त्तयंतीत्येव शीलाः प्रवर्तिनः इतिव्युत्पत्तेस्तथाचाह[भा.९५९] संजम तव नियमेसुंजो जोगो तत्थतंपवत्तेति;
असहय नियत्तंती, गणतत्तील्लो पवत्तीओ।। वृ-तपसंयमनियमयोगेषुमध्ये योयत्रयोग्यस्तंतत्रप्रवर्तयन्तिअसहांश्चासमर्थांश्च निवर्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः उक्तंप्रवर्तिस्वरूपमधुनास्थविरस्वरूपमाह[भा.९६०] संविगो मद्दवितो पियधम्मो नाणदसणचरिते ।
जे अड्डेपरिहायतिसारेतो तो हवइथेरो ।। वृ-यः संविग्नोमोक्षाभिलाषीमार्दवितः संजातमार्दवः प्रियधर्माएकान्तवल्लभः संयमानुष्ठाने यो ज्ञानदर्शनचारित्रेषुमध्येयानर्थान् उपादेयान् अनुष्ठानविशेषान्परिहापयतिहानिनयतितान्संस्मारयन् भवतिस्थिरः ।सीदमानान्साधूनएहिकामुष्मिकापायप्रदर्शनतोमोक्षमार्गे स्थिरीकरोतीतिस्थविर इति व्युत्पत्तेस्तथा चाह[भा.९६१] थिरकरणा पुन थेरो, पवत्ति वायारिएसु अत्थेसु ।
जो जत्थसीयइजई, संतबलोतंपचोदेति ।। वृ-प्रवर्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति सत् विद्यमानं बलं यस्य स सद्धलः तथाभूतः सन् प्रचोदयतिप्रकर्षेण शिक्षयति, स स्थिरकरणात्स्थविर इति उक्तंस्थविरस्य स्वरूपम् ।
अधुनागीतार्थस्य स्वरूपमाह[भा.९६२] उद्धावणा पहावणखेत्तोवहिमगणासुअविसादी ।
सुत्तत्थ तदुभयविऊगीयत्था एरिसा होति ।। वृ- उत्प्राबल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति? तथाविधे गच्छे प्रयोजने समुत्पन्ने आचार्येण सन्दिष्टो असन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्धयाकरणं उद्धवनं शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा उपधि[ध]रुत्पादनं एतासुयेऽविषादिनो विषादं न गच्छंति, तथा सूत्रार्थतदुभयविदः अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिन इत्यर्थः । एवमाचार्यादिपञ्चकसमेते गच्छे वस्तव्यं यदि पुनः कथञ्चिदपराधप्राप्तो भवति गच्छश्च पञ्चकपरिहीनस्तदायं दृष्टान्तः[भा.९६३] जहपंचकपरिहीनं रज्जंडमरभयचोर उव्विगं ।
उगहिय सगडपिडगं परंपरं वच्चएसामि ।। वृ- यथा राज्यं राजादिपञ्चकं परिहीनं सन्तं डमरः स्वदेशोत्थो विप्लवः, भयं परचक्रेण समुत्थं, तस्कराश्चौरास्तैरुद्विग्नमुपगतं परित्यज्य आत्मीयं च शकटपिटकमुद्गृह्य परम्परं स्वामिनं द्राग व्रजति यत्रस्वास्थ्यं लभते;[भा.९६४] .इय पञ्चकपरिहीने गच्छे आवन्नकारणेसाहू ।
आलोयणमलहंतो परंपरंवच्चए सिद्धे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org