________________
२३०
व्यवहार - छेदसूत्रम्-१-१/१९ कायिकी संज्ञा । उपलक्षणमेतत् ।प्रश्रवणभूमीनांच प्रेक्षार्थमभिशय्यांगतइति । एवमनापृच्छायामपवाद उक्तः ।सम्प्रति प्रतिषिद्धेऽपवादमाह[भा.६७०] एमेव यपडिसिद्धेसन्नादिगयस्सकंचिपडिपुच्छे ।
तंपिय होढा असमिक्खिऊणपडिसेहितो जम्हा ।। वृ-कस्यापिसाधो रमिशय्यादिगमने गुरुणा प्रतिषिद्धे संज्ञादिगतस्य कायिक्यादिभूमिगतस्य सत एवमेव अनन्तरोक्तेन प्रकारेण गुरून् प्रति सन्देशकथनं ज्ञातव्यम् । कथमित्याह-कं चि पडिपुच्छेति, कमपि वृषभं प्रतिपृच्छेत् यथा-'न मे किमपि गमनप्रतिषेधकारणमभूत, केवलमेवमेव गुरुणा प्रतिषिद्धोऽथ च मया स्वाध्यायः कर्तव्योवसतौ चा स्वाध्यायादिकमुपजातमतः किं करोमि यामि वसति,प्रतिपृच्छामिगुरुम्' इति । एवमुक्ते तेवृषभादयोऽभिशय्यांगन्तुकामाः कालस्यस्तोकत्वात् यावत् वसतौ गत्वा गुरून् प्रतिपृच्छय समागच्छन्ति तावत् रात्रिः पततीतितं प्रत्येवमुदीरयंति ।तंपि येत्यादि तदपिगुरूणां प्रतिपृच्छनं । ‘होढा' इति देशीपदमेतत् दत्तमेव कृतमेवेत्यर्थः । यस्मादसीक्ष्यापर्यालोच्यानाभोगतएवमेवेत्यर्थः । त्वं प्रतिषेधितस्ततो यदत्र किमपिगुरवो वक्ष्यन्ते, तत्र वयं प्रत्यापिष्यामो यथैव न किमपिगमनप्रतिषेधकारणकृतवान् प्रतिपृच्छार्थवागच्छन् अस्माभिर्वारितस्तावत् कालस्याप्राप्यमाणत्वात् । एवमुक्त्वा बलादपितंवृषभा नयन्ति । सोऽपिच बलान्नीयमानश्चिन्तयति यथा 'नास्तिममकश्चिद्दोषः किंनगच्छामीतिसचतत्रगच्छन्वृषभाश्चयेऽन्येसाधवोवसतिमुपयन्ति तेषांसन्देशंप्रयच्छन्ति । अथासमीक्ष्यसप्रतिषिद्ध इतिवृषभाः कथंजानन्तीत्यतआह[भा.६७१] जाणंतिवतंवसभा अहवा वसभाणतेन सब्भावो ।
कहितो नमेत्थिदोसो तोणं वसभाबला नेति ।। वृ-जानन्ति स्वयमेव तं वृषभा यथा निर्दोष एषोऽकारणे गुरुणा प्रतिषिद्धः, अस्मत्समक्षमेवास्य प्रायोऽवस्थानात् । अथवा तेन वृषभाणां सद्भावः कथितो यथा न मे कश्चन दोष इति । तत् एतत् ज्ञात्वा गुरुमनापृच्छयैवयथोक्तप्रकारेणवृषभाबलान्नयन्ति ।योऽपिआचार्यस्यप्रतिचारीपूर्वं प्रतिषिद्धः सोऽपि तत्कर्तव्यं । यदि वृषभैः सम्पादितं भवति, ततो गच्छत्यभिशय्यामिति न कश्चिद्दोषः । सम्प्रत्यमिशय्यायानषेधिक्याश्चभेदानाह[भा.६७२] अभिसेज अभिनिसीहिय एक्केका दुविह होइनायव्वा ।
. एगवडाए अंतो, बहिया सम्बद्धऽसम्बद्धा ।। वृ-या गन्तव्या अभिशय्या अभिनषेधिकी वासा एकैका द्विविधा भवति । तद्यथा-साधु वसतेः एगवडाएइतिएकवृत्तिपरक्षेपायांअन्तर्बहिश्च ।इयमत्रभावना-द्विविधाभिशय्या-एकवसतैरेकवृत्तिपरिक्षेपाया अन्तरपराबहिरेवं नैषेधिक्यपिद्विविधाभावनीया । भूय एकैकाभिशय्या द्विविधा । तद्यथासम्बद्धा असम्बद्धाच ।तत्रतस्या अभिशय्याया वसतेश्च एक एव पृष्टवंशः सा सम्बद्धा । यस्याः पुनः पृथक् पृष्टवंशः सा असम्बद्धाः । अथैकवृत्तिपरिक्षेपस्यान्तराभिशय्या द्विविधा अपि यथोक्तप्रकारा घटते । यात्वेकवृत्तिपरिक्षेपस्य बहिः सानूनमसम्बद्धा स्यात्, तस्याः सुप्रतीतत्वात् ।या पुनः सम्बद्धा सा पुनः कथमुपपद्यते? उच्यते-यस्या अभिशय्याया वृत्तिपरिक्षेपस्य बहिर्भूता या वसतेश्च तल्लग्नाया एकः पृष्टवंशोऽपान्तराले वसतिः सा बहिर्भूतापि सम्बद्धा इति; । नैषेधिकी पुनरन्तर्बहिर्वा नियमात्सम्बद्धैव हस्तशतस्याभ्यन्तरतोऽस्वाध्यायिकेसमुत्पन्नेस्वाध्यायासंभवात् । तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org