________________
५१२
बृहत्कल्प-छेदसूत्रम् -१-१/७
-
छायण मीराकरणे, अत्थिरफलगंच चंपादी। वृ-स्तेनाहतेषुतृणेषु दन्तपुरविषयमुदाहरणं वक्तव्यम्, यथाआवश्यके योगसङ्ग्रहेषु "दंतपुर दतचक्के०" इत्यस्यां गाथायां यन्निदर्शनमुक्तम्, तत्र यथा ‘दन्ताः केनापि न ग्रहीतव्याः' इति राजाज्ञया प्रतिषिद्धत्वाद्धनमित्रसार्थवाहमित्रेण दृढमित्रेण दन्तादर्भपूलकैराच्छाद्यप्रच्छन्नमानीताः स्तेनाहृताः संवृत्ताः, एवं राज्ञा प्रतिषिद्धानि सम्भवन्ति तृणान्यपि स्तेनाहृतानीति । तैश्च वब्बकादिभिस्तृणैग्लानादीनां छादनं प्रतिश्रयस्य वा मीराकरणं विधीयते । मीराकरणं नामकटारादेराच्छादनम्, उपलक्षणमेतत्, तेन प्रस्तरणार्थमपितृणानिगृह्यन्ते। फलकंतुप्रस्तरणार्थं मीराकरणार्थं वा । तच्चास्थिरफलकं चम्पकपट्टादि मन्तव्यम् । अस्थिरफलकं नाम-उपविशतां यदधो यातीव, तच्चैवंविधं चम्पकपट्टादि ।। अस्तेनाहृततृणानां नयने दोषानाह[भा.२०४४] अतेनाहडाण नयने, लहुओ लहुया य होति सिट्ठम्मि ।
अप्पत्तियम्मि गुरुगा, वोच्छेद पसजणा सेसे ।। वृ-अस्तेनाहतानां तृणानामनापृच्छय बहिर्नयने लघुको मासः । अपरेण केनापि तस्य 'शिष्टं कथितं त्वदीयानि तृणानि संयतैर्बाहिरिकायां नीतानि' तदा चतुर्लघु । कथिते यद्यसावनुग्रहं मन्यते ततोऽपि चतुर्लघु । अथाप्रीतिकं करोति तदा चतुर्गुरु । व्यवच्छेदं वा तद्दव्यस्य तस्य साधोभूयः प्रदाने कुर्यात् । “पसज्जणा सेस"त्ति शेषाणाम्' अन्येषामप्यशन-पानकादिद्रव्याणामपरेषां वा साधूनां प्रसङ्गतो दानव्यवच्छेदं कुर्यात् ॥ [भा.२०४५] एसेव गमो नियमा, फलएसु वि होइ आनुपुव्वीए।
नवरं पुन नाणत्तं, चउरो मासा जहन्नपदे । वृ-एष एव 'गमः' प्रकारःफलकेष्वपि भवत्यानुपूर्व्या यस्तृणेषु “नयणे दिढेसि?" इत्यादिनां भणितः । नवरं पुनरत्र नानात्वं चत्वारो मासा जघन्यपदे भवन्ति । जघन्यपदं नाम-यत्र तृणेषु लघुमासिकमापद्यते तच्चानापृच्छया बहिर्नयनमिति द्रष्टव्यम् तत्र फलकेषु चतुर्लघु ॥
अथमासद्वयादूर्द्धमवस्थाने दोषान् द्वितीयपदं चाह[भा.२०४६] दोण्हं उवरिं वसती, पायच्छित्तं च होंति दोसा य।
बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए॥ वृ-सबाहिरिके क्षेत्रेद्वयोर्मासयोरुपरियदि वसतिततःप्रायश्चित्तंप्रागुक्तमेवमासलघुकाख्यम्, दोषाश्चतएवावसातव्याः ये अबाहिरिके क्षेत्रे “संवासे इत्थिदोसा" इत्यादिना उक्ताः। द्वितीयपदं च ग्लानविषयं तदेव वक्तव्यम् । तत्र च तिष्ठता वसतिर्भेक्षं च यतनया ग्रहीतव्यम् ॥
___ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पसूत्रे
प्रथमोद्देशकस्य [सप्तसूत्रपर्यन्तः] संघदासगणि विरचितं भाष्यं एवं मलयकीर्ति-क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परि समाप्त ॥
३५/१ द्वितीयं छेदसूत्रंबृहत्कल्प-१-समाप्तम् भागः १८-बृहत्कल्पस्य पीठिका एवं उद्देशकः-१ (मू. १....७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org