________________
उद्देशकः १, मूलं-६, [भा. २०२१]
५०७
जा पढइ ताव गुरुणो, करेइ न करेइ उ परेणं ।। वृ- 'तस्य' यथालन्दिकस्य ‘यतयः' गच्छवासिनः साधवः कृतिकर्म कुर्वन्ति, ‘स पुनः' यथालन्दिकः 'तेषां' गच्छवासिनां पर्यायज्येष्ठानामपि कृतिकर्म न करोति । यावच्च ‘पठति' अर्थशेषमधीते गुरोरपि तावदेव करोति, परतस्तु न करोति, तथाकल्पत्वात् ।।
अमीषामेव मासकल्पविधिमाह[भा.२०२२] एक्को वा सवियारो, हवंतऽहालंदियाण छग्गामा।
मासो विभज्जमाणो, पनगेण उ निट्ठिओ होइ ।। वृ-यदि गुर्वधिष्ठितमूलक्षेत्रस्य बहिरेको ग्रामः ‘सविचारः' सविस्तरो वर्तते। इह विचारशब्देन विस्तार उच्यते, ततः सह विचारेण वर्तते यः स सविचारो विस्तीर्ण इत्यर्थः । आह च चूर्णिकृत्सवियारोत्ति वित्थिन्नो । ततस्तस्मिन् ग्रामे षड्वीथीः परिकल्प्य यथालन्दिका एकैकस्यां वीथ्यां पञ्चपञ्च दिवसाभिक्षामटन्ति, तस्यामेव च वीथ्यां वसतिमपि गृह्णन्ति एवंप्रतिवीथ्यां “पनगेण" रात्रिन्दिवपञ्चकेन मासो विभज्यमानः सन् षड्भिरहोरात्रपञ्चकैः ‘निष्ठितः' सम्पूर्णो भवति । अथ नास्ति विस्तीर्णो ग्रामस्ततः “हवंतऽहालंदियाणछग्गामा" इति मूलक्षेत्रपार्श्वतो ये लघुतराः षड् ग्रामा भवन्ति तेषु प्रत्येकं पञ्च पञ्च दिवसान् पर्यटतां यथालन्दिकानां तथैव षड्भिरहोरात्रपञ्चकर्मासः परिपूर्णो भवतीति ।। गतं गच्छप्रतिबद्धयथालन्दिकद्वारम् ।
अथोपरि दोषा अपवादश्चेति द्वारद्वयमाह[भा.२०२३] मासस्सुवरिं वसती, पायच्छित्तं च होंति दोसा य ।
बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए। वृ-मासस्य उपलक्षणत्वात् चतुर्णां वा मासानामुपरि यदि वसति तदा प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च ‘ग्लाने' ग्लनार्थम् उपलक्षणत्वादशिवादिभिश्च कारणैर्मासस्योर्द्धवमप्यवस्थानलक्षणं भवति । तत्र च वसतिर्भेक्षं च यतनया ग्रहीतव्यम्॥
अथैनामेव नियुक्तिगाथां विवरीषुः पार्यश्चित्तापत्तिस्थानानि तावदाह[भा.२०२४] परिसाडिमपरिसाडी, संथाराऽऽहार दुविह उवहिम्मि।
डगलग-सरक्ख-मल्लग-मत्तगमादीण पच्छित्तं ॥ वृ-संस्तारको द्विधा-परिशाटी अपरिशाटीच । परिशाटी-तृणमयः परिशटति-उत्पाट्यमानः सन्नवश्यंविशीर्यते इतिव्युत्पततेः, तद्विपरीतो अपरिशाटी फलकादिरूपः । एवं द्विविधमपि संस्तारकं यत्रम मासकल्पं वर्षावासं वा कृतवन् तत्रैव ग्रामादौ गृह्णतः । एवमाहारमपि तेष्वेव कुलेषुगृह्णतः ।औधिकौपग्रहिकभेदाद्विविधोय उपधिस्तस्मिश्च तत्रैव गृह्यमाणे।तथाडगलकानिपुतप्रोज्छनलेटुकाः सरजस्कः-क्षारः मल्लक-मात्रके प्रतीते तेषामादिशब्दात् काष्ठकिलिञ्चादीनां च तत्रैव ग्रहणे प्रायश्चित्तं वक्ष्यमाणलक्षणं भवति ।। [भा.२०२५] ओवासे संथारे, वीयारुच्चार वसहि गामे य ।
मास-चउम्मासाधिगवसमाणे होइमा सोही ।। वृ-तथा 'अवकाशः' प्रतिश्रयैकदेशः 'संस्तारः' संस्तारकभूमि, एतौ पूर्वपरिभुक्तावेव परिभुक्रे । 'विचारः' प्रश्रवणम् ‘उच्चारः' संज्ञा, एतौ तत्रैवस्थण्डिले समाचरति । वसतिंप्राक्परिभुक्तां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org