________________
उद्देशक : १, मूलं -६, [भा. २०१३]
५०५
साधर्मिकवात्सल्यं चानुपालितं भवति । यदा च तदत्यागाढं भयमुपशान्तं भवि तदा 'तं' ग्लानं 'विमार्गयन्ति' शोधयन्तीत्यर्थः ॥
गतं ग्लानद्वारम् । अथ गच्छप्रतिबद्धयथालन्दिकद्वारमाह[भा. २०१४ ] पडिब्धे को दोसो, आगमनेगाणियस्स वासासु । सुय- संघयणादीओ, सो चेव गमो निरवसेसो ॥
वृ- प्रतिबन्धनं प्रतिबद्धं गच्छप्रतिबन्ध इत्यर्थः तत्रकारणं यथालन्दिकानां वक्तव्यम् । “को दोसो "त्ति को नाम दोषो भवति यत् ते यथालन्दिका आचार्याधिष्ठिते क्षेत्रे न तिष्ठन्ति ? । “आगमनेगाणियस्स” त्ति यद्याचार्या स्वयं क्षेत्रबहिर्गन्तुं न शक्नुवन्ति तत एकाकिनो यथालन्दिकस्यागमनं गुरूणां समीपे भवति । “वासासु' त्ति वर्षासु उपयोगं दत्त्वा यदि जानाति वर्षं न पतिष्यति तत आगच्छति यथालन्दिको गुरुसमीपे, अन्यथा तु नेति । श्रुत संहननादिकस्तु गमः स एव निरवशेषो वक्तव्यः यो जिनकल्पिकानाम्, यस्तु विशेषः स प्रागेवोक्तः ॥ अथ प्रतिबद्धपदं व्याख्याति
[भा. २०१५] सुत्तत्थ सावसेसे, पडिबंधो तेसिमो भवे कप्पो ।
आयरिए किइकम्मं, अंतर बहिया व वसहीए ।
वृ- सूत्रस्यार्थस्तैर्गृहीतः परमद्यापि 'सावशेषः' न सम्पूर्ण एष तेषां गच्छविषयः प्रतिबन्धो द्रष्टव्यः । तेषां च 'अयं' वक्ष्यमाणः कल्पः, यथा - आचार्यस्यैव 'कृतिकर्म' वन्दनकं तैर्दातव्यं नान्येषां साधूनाम् । तथा यद्याचार्यो न शक्नोति गन्तुं ततोऽन्तरा वा ग्रामस्य बहिर्वा वसतौ यथालन्दिकस्य वाचनां ददाति । एदुत्तरत्र भावयिष्यते ।।
अथ कोदोष इति द्वारम् । शिष्यः पृच्छति-यद्याचार्याधिष्ठिते क्षेत्रे ते तिष्ठेयुस्ततः को दोषः स्यात् ? उच्यते
[भा. २०१६] नमनं पुव्वासा, अणमे दुस्सील थप्पगासंका । आयट्ठ कुक्कुड त्ति य, वातो लोगे ठिई चेव ॥
वृ-यथालन्दिकानां न वर्त्तते आचार्यं मुक्त्वा अन्यस्य साधोः प्रणामं कर्तुम्, तथाकल्पत्वात् । ततस्ते क्षेत्रान्तस्तिष्ठन्तः पूर्वाभ्यासाद् 'नमनं' प्रणामं साधूनां कुर्युः । गच्छ्वासिनश्च यथालन्दिकान् वन्दन्ते, ते पुनर्यथालन्दिकास्तान् भूयो न प्रतिवन्दन्ते, ततस्तेषामनमने लोको ब्रूयात्- 'दुःशीलाः "" शैलस्तम्भकल्पा अमी, येनान्येषामित्थं वन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, नवा कमप्याला पं कुर्वन्ति । गच्छवासिषु वा लोकस्य स्थाप्यकाशङ्का भवति, अवश्यं स्थाप्याः - दुःशीलत्वादन्दनीयाः कृता अमी, अन्यथा कथं न प्रतिवन्द्यन्ते ?, आत्मार्थिका वा अमी येनाप्रतिवन्दमानानपि वन्दन्ते, 'कौत्कुटिका वा' मातृस्थानकारिणोऽमी लोकपक्रिनिमित्तमित्थं वन्दन्ते । एवं लोके बाद उपाजायते । एतैः कारणैः क्षेत्रबहिस्ते यथालन्दिकास्तिष्ठन्ति । अपि च 'स्थितिरेव' कल्प एवायममीषाम्, यत् क्षेत्राभ्यन्तरे न तिष्ठन्ति ॥
अथामीषामेव कल्पमाह
[भा. २०१७] दोन्नि विदाउं गमनं, धारणकुसलसस खेत्तबहि देइ । किइकम्म चोलपट्टे, ओवग्गहिया निसिज्जा य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org