SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ शिष्यः पृच्छति कथमसंयतस्य संसृष्टभाजनं संयतः प्रक्षालयति ? किं निमित्तं वा वैद्यस्य मज्जनादिकमियत् परिकर्म क्रियते ? उच्यते ४९४ [भा. १९६० ] पूयाईणि वि मग्गई, जह विज्जो आउरस्स भोगट्ठी । तह विज्जे पडिकम्मं, करिति वसभा वि मुक्खट्ठा ॥ वृ-यथा वैद्यः 'भोगार्थी' भोगाङ्गद्रव्याभिलाषी 'आतुरस्य' रोगिणः 'पूयादीन्यपि' पूयं पक्वरक्तं तदादीनि आदिशब्दात् शोणितप्रभृतीन्यप्यशुचिस्थानानि 'मार्गयति' शोधयति तथा वृषभा अपि मोक्षार्थं वैद्यस्य सर्वमपि 'प्रतिकर्म' मज्जनादिकं कुर्वन्ति ॥ यस्तु न कुर्यात् तस्य प्रायश्चित्तमाह [ भा. १९६१] तेइच्छियस्स इच्छानुलोमगं जो न कुज्ज सइ लाभे । अस्संजमस्स भीतो, अलस पमादी व गुरुगा से ।। वृ-चिकित्सया चरति जीवति वा चैकित्सिकः- वैद्यस्तस्य या मज्जनादाविच्छा तस्याः अनुलोमम्अनुकूलं प्रतिकर्म 'सति लाभे' लाभसम्भवे "अस्संजमस्स भीउ "त्ति पञ्चम्यर्थे षष्ठी 'असंयमाद्' असंयतवैयावृत्त्यकरणलक्षणाद् भीतोऽलसः प्रमादी वा यो न कुर्यात् तस्य चत्वारो गुरुकाः ।। अथ ग्लान-वैद्ययोर्वैयावृत्त्यकारणान्युपदर्शयति [ भा. १९६२ ] लोगविरुद्धं दुष्परिचओ उ कयपडिकिई जिनाणाय । अतरंतकारणेते, तदट्ठ ते चेव विजम्मि ।। वृ-ग्लानस्य यदि वैयावृत्त्यं न क्रियते ततो लोकविरुद्धं भवति, लोको ब्रूयात्-धिगमीषां धर्मं यत्रैवं मान्द्यसम्भवेऽपीद्शमनाथत्वमिति । तथा परस्परमेकप्रवचनप्रतिपत्त्यादिना यः कोऽपि लोकोत्तरिकः सम्बन्धः सः ‘दुष्परित्यजः' दुष्परिहर इति ग्लानस्य वैयावृत्त्यं कार्यम् । कृतप्रतिकृतिश्चैवं कृता भवति, यत् तेन ग्लानेन पूर्वं हृष्टेन सता यदात्मन उपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः । ‘जिनानां' तीर्थकृतां या 'आज्ञा' अग्लान्या ग्लानस्य वैयावृत्त्यं कुर्यात्' इत्यादिलक्षणा सा कृता भवति । एतानि अतरन्तः- ग्लानस्तस्य वैयावृत्त्ये कारणानि । 'तदर्थं' ग्लानार्थं यद् वैद्स्य वैयावृत्त्यकरणं तत्रापि 'तान्येव' लोकविरुद्धपरिहारादीनि कारणानि द्रष्टव्यानि ।। अथ ग्लानस्य मज्जनादिविधिमतिदिशन्नाह [भा. १९६३ ] एसेव गिलाणम्मि वि, गमो उ खलु होइ मज्जणाईओ । सविसेसो कायव्वो, लिंगविवेगेण परिहीणो ॥ वृ- एष एव ग्लानेऽपि मज्जनादिकः 'गमः' प्रकारो भवति, यथा वैद्यविषय उक्तः । नवरं 'सविशेषः' भक्ति-बहुमानादिविशेषसहितो लिङ्गविवेकेन परिहीनः सर्वोऽपि कर्त्तव्यः ॥ अथ ग्लान- वैद्ययोरनुवर्त्तनाया महार्थत्वं दर्शयन्नाह - [भा. १९६४ ] को वोच्छिइ गेलन्ने, दुविहं अनुअत्तणं निरवसेसं । जह जायइ सो निरुओ, तह कुज्जा एस संखेवो । वृ-ग्लान्ये सति या द्विविधा अनुवर्त्तना-ग्लानविषया वैद्यविषया च तां 'निरवशेषां' सम्पूर्णां को नाम वक्ष्यति ? बहुवक्तव्यत्वाद् न कोऽपीत्यभिप्रायः । अतो यथाऽसौ ग्लानो नीरुग् जायते तथा कुर्यात् । एषः 'सङ्क्षेपः' सङ्ग्रहः, उपदेशसर्वस्वमिति यावत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy