________________
उद्देशक ः १, मूलं-६, [भा. १९४९]
४९१ क्रियते, यथा-यतीनांनोपरमतेततोधर्मकथा कर्त्तव्या । तथाप्यप्रतिपद्यमानेविद्या-मन्त्र-निमित्तानि 'तस्य' वैद्यस्यावर्जनार्थं प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते, ततस्तस्य वैद्यस्यासौ मज्जनादिकं काराप्यते ॥
अथ धर्मकथापदं भावयति[भा.१९५०] तह से कहिंति जह होइ संजओ सन्नि दानसड्डो वा ।
बहिया उ अण्हायंते, करिति खुड्डा इमं अंतो॥ वृ-आक्षेपणीप्रभृतिभिर्धर्मकथाभिस्तस्य तथा धर्मं कथयन्ति यथाऽसौ संयतो भवति ‘संज्ञी वा' गृहीतानुव्रतोऽविरतसम्यग्दृष्टिा 'दानश्राद्धो वा' मुधैव साधूनामारोग्यदाशीलो भवति । अथ धर्मकथालब्धिर्नास्ति ततो विद्या-मन्त्रादयः प्रयुज्यन्ते । तेषामभावे तस्य आमलकादीनि दीयन्ते, भण्यतेचासौ-बहिर्गत्वातडागादिषु स्नानं कुरुत ।अथबहिस्नातुनेच्छतिततोबहिरस्नाति तस्मिन् क्षुल्लकाः 'इदं' वक्ष्यमाणम् ‘अन्तः' प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति ।
किं तत् ? इत्याह[भा.१९५१] उसिणे संसढे वा, भूमी-फलगाइ भिक्ख चड्डाई।
अनुसट्ठी धम्मकहा, विज-निमित्ते य अंतो बहिं ।। वृ-'उष्णोदकेन' प्रतीतेन संसृष्टेन' गोरसरसभावितेनअपरेण वाप्राशुकेनपानकेन क्षुल्लकास्तं स्नपयन्ति। शयनमाश्रित्य भूमौ फलके आदिशब्दात् पल्यङ्कादिषु वा सशाय्यते। भोजनं प्रतीत्य 'भैक्षं' भिक्षापर्यटनेन लब्धमानीय तस्य दातव्यम् । “चड्डाइ"त्ति 'चटुं' कमढकमयं भाजनम् आदिग्रहणात् कांस्यपात्र्यादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः । हिरण्यादिकंद्रविणजातं याचमानस्य अन्तः' इति वास्तव्यवैद्यस्य 'बहि' इत्यागन्तुकवैद्यस्योभयस्याप्य-नुशिष्टिधर्मकथाविद्या-निमित्तानि प्रयोक्तव्यानीति नियुक्तिगाथासमासार्थः॥
अथैनामेव भावयन्नाह[भा.१९५१] तेल्लुब्बट्टण व्हावण, खुड्डाऽसति वसभ अन्नलिंगेणं ।
पट्टदुगादी भूमी, अणिच्छि जा तूलि-पल्लंके। वृक्षुल्लकास्तं वैद्यंतैलेनाभ्यङ्गय कल्केनोद्वत्योर्षणोदकादिना प्राशुकेनैकान्तेस्नपयन्ति।अथ क्षुल्लका न सन्ति स्नपयितुं वा न जानते ततो ये 'वृषभाः' गच्छस्य शुभा-ऽशुभकारणेषु भारोद्वहनसमर्थास्ते 'अन्यलिङ्गेन' गृहस्थादिसम्बन्धिनास्नानादिकं वैद्यस्य कुर्वन्ति। “पट्टदुगाई" इत्यादि, स वैद्यः शयितुकामः प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तीर्य शाय्यते । अथ नासौ पट्टद्वये स्वप्नुमिच्छति तत और्णिक-सौत्रिकौ कल्पौ प्रस्तीर्येते । तथापि यदि नेच्छति ततः काष्ठफलके संस्तारोत्तरपट्टकावास्तीर्य शयनं कार्यते । तथाप्यनिच्छति उत्तरोत्तरं तावनेतव्यं यावत् तूली-पल्यङ्कावयानीय शाययितव्य इति ॥
अथ भैक्षपदं भावयति[भा.१९५३] समुदानिओदनो मत्तओ वऽनिच्छंति वीसु तवणा वा।
एवं पऽनिच्छमाणे, होइ अलंभे इमा जयणा ।। वृ-समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहणम् तत्र लब्धः सामुदानिकः, “अध्यात्मादिभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org