________________
उद्देशक : १, मूलं-६, [भा. १७०४]
४३५ महता प्रयत्नेन परिहरेत् ।
सर्वोपकरणमपि स्तेन-प्रत्यनीकाद्युपद्रवभयाद् वृद्धत्वादधुनोत्थिग्लानत्वाद्वा न गृह्णीयात् । इयत् पुनरवश्यमेव ग्रहीतव्यम्-पात्रभाण्डकं चोलपट्टको रजोहरणं मुखवस्त्रिका चेति । मात्रकमप्यनाभोगादिना न गृह्णीयात् । कायोत्सर्गादीन्यपि ग्लानादिकार्येषु त्वरमाणो न कुर्यादिति । उक्तं सप्रतिपक्षद्वारम् । तदुक्तौ च गतंभिक्षाद्वारम् । अथ कल्पकरणद्वारमभिधित्सुराह[भा.१७०५] भाणस्स कप्पकरणे, अलेवडे नस्थि किंचि कायव्वं ।
तम्हा लेवकडस्स उ, कायव्वा मग्गणा होइ॥ वृ-भाजनस्य कल्पकरणे चिन्त्यमाने यदलपकृतं द्रव्यं तद् यत्र प्रक्षिप्तं तस्य भाजनस्य न किञ्चित् कर्तव्यम्, कल्पो न विधेय इत्यर्थः । लेपकृतभाजनस्य त्ववश्यं कल्पो दातव्य इत्यतो लेपकृतस्य मार्गणा कर्तव्या, कीशं लेपकृतम् ? अलेपकृतं वा? इति चिन्तनीयमित्यर्थः ॥
तत्रालेपकृतानि तावदाह[भा.१७०६] कुंजसिण-चाउलोदे, संसट्ठा-ऽऽयाम-कट्ठमूलरसे।
कंजियकढिए लोणे, कुट्टा पिज्जा य नित्तुप्पा॥ वृ-काजिकम्-आरनालम्, उष्णोदकम्-उद्वत्तत्रिदण्डम्, “चाउलोदगं" तन्दुलधावनम्, संसृष्टं नाम-गोरससंसृष्टे भाजने प्रक्षिप्तं सद्यदुदकंगोरसरसेन परिणामितम्, 'आयामम्' अवश्रावणम्, “कट्ठमूलरसे" त्ति काष्ठमूलं-चणक-चवलादिकं द्विदलं तदीयेन रसेन यत् परिणामितं तत् काष्ठमूलरसं नाम पानकम्, तथा यत् काञ्जिकक्कथितम्, “लोणि"त्ति सलवणम्, याच “कुट्टा" चिञ्चिनिका, ‘पेया च' प्रतीता 'निस्तुप्पा' अचोप्पडा अवग्घारिता वा ॥ तथा [भा.१७०७] कंजिय-उदगविलेवी, ओदण कुम्मास सत्तुए पिढे।
मंडग समिउस्सिन्ने, कंजियपत्ते अलेवकडे॥ वृ-विलेपिका द्विविधा-एका काञ्जिकविलेपिका, द्वितीयाउदकविलेपिका। 'ओदनः' तन्दुलादि भक्तम्, ‘कुल्माषाः' उडदा राजमाषावा, 'सक्तवः' भ्रष्टयवक्षोदरूपाः, 'पिष्टं' मुद्गादिचूर्णम्, 'मण्डकाः' कणिक्कामयाः, ‘समितं' अट्टकः, ‘उत्स्विन्त्रम्' उण्डेरकादि, काञ्जिकपत्रं' काञ्चिकेन बाष्पितं अरणिकादिशाकम् । एतानि काञ्चिकादीन्यलेपकृतानि मन्तव्यानि ।।
अथ लेपकृतानि निरूपयति[भा.१७०८] विगई विगइअवयवा, अविगइपिंडरसएहि जं मीसं ।
गुल-दहि-तेल्लावयवे, विगडम्मि य सेसएसुंच ॥ वृ-दधि-दुग्ध-घृतादिका या विकृतयो ये च विकृतीनामवयवाः-मन्थुप्रभृतस्तैर्यद् मिश्रं यच्चाविकृतिरूपैः पिण्डरसैः-खजूरादिभिर्मियं एतत् सर्वमपि लेपकृतमिति प्रक्रमः । अत्र च गुडदधि-तैलानां येऽवयवाः यश्च विकटे' मद्येऽवयवः 'शेषेषुच' घृतादिषुयेऽवयवास्ते केचिद् विकृतयः केचिच्चाविकृतयः प्रतिपत्तव्याः।। अथैनामेव नियुक्तिगाथां विवृणोति[भा.१७०९] दहिअवयवो उमंथू, विगई तकं न होइ विगई उ ।
खीरंतु निरवयवं, नवनीओगाहिमाचेव।। वृ-दघ्नः सम्बन्धीयोमन्थुइति नाम्ना प्रसिद्धोऽवयवः स विकृति। यत्तुतकंतद्दध्यवयवरू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org