________________
४३३
उद्देशक : १, मूलं-६, [भा. १७०२] एकाकी निशङ्क्रत्वादप्कायमप्यापिबेत् १ कुण्टल-विण्टलादि वा प्रयुञ्जीत २ हिरण्यादिकं वा विक्षिप्तं गुरुकर्मतया स्तेनयेत् ३ अविरतिकां वा रूपवती दृष्टवा समुदीर्णमोहतया प्रतिसेवेत ४ भैक्षेण वा समं पतितं सुवर्णादि गृह्णीयाद् ५ इति । यत एते दोषास्तस्मात् सद्वितीयेन गमनं कर्तव्यम्, सङ्घाटकेनेत्यर्थः । स पुनरेकाकी कैः कारणैः सङ्घाटिकं न गृह्णाति? इति उच्यते[भा.१७०३] गारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे ।
दुल्लह अत्ताहिट्ठिय, अमणुने या असंघाडो॥ वृ-'गौरविको नाम’ ‘लब्धिसम्पन्नोऽहम्' इत्येवं गर्वोपेतः । अत्र चेयं भावना-सङ्घाटके यो रत्नाधिकः सोऽलब्धिमान् अवमरत्नाधिकस्तुलब्धिसम्पन्नः ततोऽसावग्रणीभूय भिक्षामुत्पादयति, प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-'ज्येष्ठार्य ! मुञ्च प्रतिग्रहम्' ततोऽवमरत्नाधिकः स्वलब्धिर्वितश्चिन्तयेत्-‘मया स्वलब्धिसामथ्येर्नेदं भक्त-पानमुत्पादितम्, इदानीमस्य रत्नाधिकः प्रभुरभू येनास्य पार्श्वे प्रतिग्रहो याच्यते' इति कषायितः सन्नेकाकित्वं प्रतिपद्यते । “काहीए"त्ति कथाभिश्चरतीति 'काथिकः' कथाकथनैकनिष्ठः, स गोचरं प्रविष्टः कथाः कथयन् द्वितीयेन साधुना गुर्वादिभिर्वा वार्यमाणोऽपि नोपरमते तत एकाकी भवति । 'मायावान्' भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकीजायते। अलसः' चिरगोचरचर्याभ्रमणभग्नः सन्नेकाकी पर्यटति । 'लुब्धस्तु' दधि-दुग्धादिका विकृतीवभाष्यमाणः पृथगेवाटति । 'निर्द्धर्मा पुनः' अनेषणीयं जिघारेकत्वं प्रतिपद्यते । “दुल्लह"त्ति दुर्लभभैक्षे काले एकत्वमुपसम्पद्यते । 'अत्ताहिट्ठिय' त्ति आत्मार्थिकः-आत्मलब्धिकः सः 'स्वलब्धिसामथ्येर्नैवोत्पादितमहं गृह्णामि' इत्येकाकी भवति । 'अमनोज्ञो नाम' सर्वेषामप्यनिष्टः कलहकारकत्वाद् असावप्येकाकी पर्यटतीति । एतैः कारणैः ‘असङ्घाटः' सङ्घाटको न भवति ।।
अथैतेषामेकाकित्वप्रत्ययं प्रायश्चित्तमाह[भा.१७०४] लहुया यदोसु गुरुओ, अतइअए चउगुरू य पंचमए।
सेसाण मासलहुओ, जं वा आवजई जत्थ ।। वृ-'द्वयोः' गौरविक-काथिकयोश्चत्वारो लघवः । 'तृतीयकस्य' मायावतो गुरुको मासः । 'पञ्चमस्य' लुब्धस्य चत्वारो चत्वारो गुरवः । शेषाणाम्' अलस-निर्धर्मादीनां मासलघु । 'यद् वा' संयमविराधनादिकं यत्रापद्यते तन्निष्पन्नं तत्र प्रायश्चित्तम् ।। गतं सङ्घाटकद्वारम् । अथोपकरणद्वारम्-सर्वमप्युपकरणमादायभिक्षायामटितव्यम्।यदि सर्वोपकरणंनगृह्णातितदामासलघु, उफधिनिष्पन्नं वा । तथा तेषां भिक्षामटितुंगतानां स प्रतिश्रयस्थापित उपिरग्निकायेन दह्येत, दण्डिकक्षोभो मालवस्तेनक्षोभो वा तेषां भिक्षामटतां सहसा समापतित इति कृत्वा तत एव ते पलायिताः, तोत यदुपधिं विना तृणग्रहणादि कुर्यु तन्निष्पन्नं प्रायश्चित्तमिति ।
गतमुपकरणद्वारम् । अथ मात्रकद्वारं व्याख्यायते-मात्रकमगृहीत्वा निर्गच्छति मासलघु । आर्यादीनां प्रायोग्यं मात्रकं विना कुत्र गृह्णातु ? । यदि न गृह्णाति तदा यत् ते अनागाढमागाढं वा परिताप्यन्तेतन्निष्पन्नम् । अथ ते अन्त-प्रान्तं समुद्दिशेयुः ततो ग्लान्यादयो दोषाः । दुर्लभद्रव्यस्य वाघृतादेस्तद्दिवसंलाभोजातः, यदि मात्रकंनास्तीति कृत्वा तन्न गृह्णातितदामासलघु।संसक्तभक्त[18/28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org