SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२८ बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१६८४] मासे पक्खे दसरायए य पणए अएगदिवसे य। वाघाइमपाहुडिया, होइ पवाया निवाया य॥ वृ-या प्राभृतिका 'मासे' मासस्यान्ते 'पक्षे' पक्षस्यान्ते 'दशरात्रे' दशानामहोरात्राणां पर्यन्ते 'पञ्चके' पञ्चरात्रिन्दिवान्ते 'एकदिवसे' एकान्तरिते दिने चशब्दाद् निरन्तरं दिने दिने इत्यर्थः, एवं प्रतिनियते काले या क्रियते सा छिन्नकालिका । या तुन ज्ञायते कस्मिन् दिवसे विधीयते सा अच्छिन्नकालिकेति । व्याघातिप्राभृतिका नाम-या सूत्रार्थपौरुषीवेलायां क्रियते । भवति प्रवाता निवाता चेति । प्रवाता नाम-या ग्रीष्मकाले अपराह्ने उपलेपनादिकरणेन धर्मं नाशयति । या तु शीतकाले पूर्वाह्ने उपलेपनकरणेन रात्रौ व्यपगतःहा जायते सा निवाता भण्यते ।। अथ कस्यांप्राभृतिकायां वस्तुंकल्पते? कस्यां वान? इति अत आह[भा.१६८५] पुवण्हे अवरण्हे, सूरम्मि अनुग्गए व अत्थमिए। मज्झंतिए व वसही, सेसं कालं पडिक्कुट्ठा ॥ वृ-पूर्वाह्ने अनुद्गते सूर्य, अपराह्ने तु अस्तमिते, 'मध्यान्तेवा' मध्याह्नवेलायाम् अर्थपौरुष्या उत्थितेषु इत्यर्थः, एतेषुकालेषु यस्यांप्राभृतिका क्रियतेसा वसतिरनुज्ञाता, सूत्रार्थव्याघाताभावात् । “सेसं कालं" तिसप्तम्यर्थे द्वितीया, 'शेषे' उद्गतसूर्यादौ काले यस्यां प्राभृतिका विधीयते साप्रतिक्रुष्टा, न कल्पतेतस्यां वस्तुम्, सूत्रार्थव्याघातसम्भवात् ॥अथ निर्दिष्टा-ऽनिर्दिष्प्राभृतिके भावयति[भा.१६८६] पुरिसज्जाओ अमुगो, पाहुडियाकारओ उ निद्दिट्टो । सेसा उ अनिद्दिट्ठा, पाहुडिया होइ नायव्वा॥ वृ-अमुकः 'पुरुषजातः' पुरुषप्रकारः प्राभृतिकाकारक इन्द्रदत्तादिनाम्ना यस्यां निर्दिष्टः सा निर्दिष्टा । शेषा तु सर्वाऽप्यनिर्दिष्टा प्राभृतिका भवति ज्ञातव्या ।। अथ पूर्वोक्तभङ्गाष्टकविषयं विधिमाह[भा.१६८७] काऊण मासकप्पं, वयंति जा कीरई उ मासस्स। सा खलु निव्वाघाया, तंवेलारेण निताणं ।। वृ- इह प्रथमे भङ्गे या मासस्यान्ते क्रियत इति कृत्वा च्छिन्नकालिका,तत्राप्यपराह्न एव विधीयमानत्वानियता, अमुकपुरुषकर्तृकत्वेन च निर्दिष्टा । तस्यांकृतायांप्रथमतः प्रविष्टास्ततो मासकल्पं कृत्वा यदि व्रजन्ति । कथम् ? इत्याह-"तंवेलारेण निताणं" ति तस्याः-प्राभृतिकाकरणवेलाया अर्वाग् निर्गच्छतां साप्राभृतिका निव्या_ता मन्तव्या, सूत्रार्थव्याघाताभावात्, कल्पते तस्यां वस्तुमिति भावः । शेषा द्वितीयादयो भङ्गाः क्वापि कथञ्चित् सव्याघाता इति कृत्वा तेषु न कल्पते ॥अथ प्रवाता निवातेति च पदद्वयं भावयति[भा.१६८८] अवरण्हे गिम्ह करणे, पवाय सा जेण नासयइ धम्मं । पुवण्हे जा सिसिरे, निव्वाय निवाय सा रत्तिं ।। वृ-ग्रीष्मे अपराह्ने यदुपलेपनस्य करणंसा प्रवाता । कुतः? इत्याह-येना सा रात्रौ नाशयति' व्यपनयति 'धर्म' ग्रीष्मर्तुसम्भवं तापम् । या तु 'शिशिरे' शीतकाले पूर्वाह्ने उपलेपनकरणेन दिवसस्य चतुर्भिःप्रहरैः निवाता' शुष्का इत्यर्थः सा रात्रौनिवाता भवति। एतयोः कारणतोऽवस्थातुं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy