________________
उद्देशक : १, मूलं- ६, [भा. १६६४ ]
४२३
दोषाः । वर्षासु पुनरुपधिं न बघनाति प्रतिग्रहं मात्रकं च प्रत्युपेक्ष्य निक्षिपति । अथोपधिं बघ्नाति भाजने वा धारयति तदा मासलघु । विशेषचूर्णिकृता त्वस्या एकगाथायाः स्थाने गाथाद्वयं लिखितम् । यथा
गुरु पञ्च्चक्खायाऽसहु, गिलाण सरिसखमए य चउगुरुगा । पाहुण सेह बाले, बुड्ढे खमए अ चउलहुगा ॥ चउभागवसेसाए, पडिग्गहं पच्चुवेक्ख न धरेइ । उडुबद्धे मासलहुं, वासासु धरिंति मासलहुँ । वृ- इदं च भावितार्थमेव ॥ अथ “प्रतिलेखनिका सप्रतिपक्षा" इति पदं भावयति
[ भा. १६६५ ]
असिवे ओमोयरिएष सागार भए व राय गेलने । जो जम्मि जया जुज्जइ, पडिवक्खो तं तहा जोए ।।
वृ- 'प्रतिपक्षो नाम' द्वितीयपदम्, तच्चैदम्- 'अशिवे' अशिवगृहीतः सन्न शक्नोति प्रत्युपेक्षितुम्, अवमौदर्ये तु प्रत्यूष एव भिक्षां हिण्डितुं प्रारब्धवन्तः अतो नासित प्रत्युपेक्षणायाः कालः, सागारिको वा प्रेक्षमाणो मा तं सारमुपधिं द्राक्षीदिति कृत्वा, 'भये वा' बोधिक- स्तेनादिसम्बन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षन्ते, राजा वा प्रत्यनीकस्तद्भयादहर्निशमध्वनि वहन्तो न तयुपेक्षेरन्, ग्लानत्वे वा वर्त्तमान एकाकी तिष्ठन् न प्रत्युपेक्षते । एतैः कारणैर्न वा प्रत्युपेक्षेत, अनागतेऽतीते वा काले प्रत्युपेक्षेत, त्वरमाणो वा आरभडादिभिर्दोषैर्दुष्टां प्रत्युपेक्षणां कुर्वीत,
असमर्थो वा गुर्वादीनामप्युपधिं न प्रत्युपेक्षेत; एवं यः 'यत्र' अशिवादी 'यदा' यस्मिन्नवसरे 'प्रतिपक्षः' अप्रत्युपेक्षणा-ऽकालप्रत्युपेक्षणादिको युज्यते तं तथा तत्र योजयेदिति ॥ अथ षट्सु कायेषु प्रत्युपेक्षमाणस्य प्रायश्चित्तं भवतीत्यर्थात् तत्र प्रत्युपेक्षणा न कर्तव्येति यदुक्तं तदपवदति[भा.१६६६] तस-बीयरक्खणट्ठा, कासु वि होज्ज कारणे पेहा । नदिहरणपुत्तनायं, तनू य थूरे य पुत्तम्मि ॥ जइ से हवेज सत्ती, उत्तारिज्जा तओ दुवग्गे वि । धूरो पुन तणुअतरं, अवलंबतो वि बोलेइ ॥
[भा. १६६७ ]
वृ- त्रसाश्च द्वीन्द्रियादयः बीजानि च शाल्यादीनि तेषामस्थिरसंहनिनां रक्षार्थं 'कायेष्वपि ' पृथिव्यादिषु दृढसंहननिषु कारणतः प्रत्युपेक्षणा भवति, न च प्रायश्चित्तम् । आह तेषु प्रतिष्ठितः प्रत्युपेक्षणं कुर्वन् सङ्घट्टनादिबाधाविधानात् कथं न दोषभाग् भवति ? इति उच्यते- नदीहरणोपलक्षितं पुत्रज्ञातमत्र भवति । कथम्? इत्याह- “तनू य थूरे य पुत्तम्मि” त्ति यथा कश्चित् पुरुषः, तस्य द्वौ पुत्रौ, तयोरेकः तनुकः- कृशशरीरः, द्वितीयस्तु स्थूलः - अतीवपीवरगात्रः । स चान्यदा ताभ्यां सहितः कञ्चिद् ग्रामं गच्छन्नपान्तराले एकामपार- गम्भीरां नदीमवतीर्णवान् । स च नदीष्णतया सुखेनैव स्वयं तां तरीतुं शक्तः, परं पुत्रावद्यापि तरण कलायामकोविदाविति कृत्वा तनुके स्थूले च पुत्रे उभयेऽपि तारयितुं प्राप्ते सति स किं करोति ? इत्याह
यदि ‘“से” तस्य पितुः ‘शक्ति' सामर्थ्य भवेत् ततः “दुवग्गे वि" त्ति देशीवचनत्वाद् द्वावपि पुत्रावुत्तारयेत्, नैकमप्युपेक्षेत । अथ नास्ति तस्य तथाविधं सामर्थ्य ततो यस्तयोः कृशशरीरस्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org