________________
४०८
बृहत्कल्प-छेदसूत्रम् -१-१/६ तत्र 'अशुद्धम्' अप्राशुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरपि 'अहितम्' अपथ्यम्, गृह्णतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । तदेव' अशुद्धम् 'असंस्तरणे' अनिवहि दीयमानं गृह्यमाणंच 'हितं' पथ्यं भवति । आह कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति? इति उच्यते-आतुरः-रोगी तस्य दृष्टान्तेनेदं मन्तव्यम् । यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौषधादिकमपथ्यं भवति, काञ्चित्पुनः समाश्रित्य तदेवपथ्यम्, एवमिहापि भावनीयम् ।। तदेवं भावितं “साहंति य पियधम्मा, एसमदोसे अभिग्गहविसेसे" इति । अथ युक्तम् “एवं तु विहिग्गहणे" त्ति तत्र विधिग्रहणं भावयति[भा.१६०९] संचइयमसंचइयं, नाऊण असंचयं तु गिण्हंति ।
संचइयं पुन कन्जे, निब्बंधे चेव संतरियं ॥ वृ-प्रायोग्यद्रव्यं द्विधा-सञ्चयिकमसञ्चयिकंच। 'सञ्चयिकं घृत-गुड-मोदकादि, ‘असञ्चयिकं' तु दुग्ध-दधि-शालि-सूपादि।तत्रयदसञ्चयिकंतत्स्थापनाकुलेषुप्रभूतंज्ञातवा गृह्णन्ति।सञ्चयिकं पुनर्लान-प्राधूर्णकादौमहति कार्येउत्पन्नेगृह्णन्ति।अथश्राद्धानांमहानिर्बन्धोभवति ततोऽग्लाना अपि गृह्णन्ति, परं 'सान्तरितं' न दिने दिने इति भावः । एष सञ्चयिकग्रहणस्यापवाद उक्तः॥ अथापवादपसदस्याप्यपवादमाह[भा.१६१०] अहवण सद्धा-विभवे, कालं भावंच बाल-वुड्डाई।
नाउ निरंतरगहणं, अछिन्नभावेय ठायंति॥ वृ-“अहवण"त्तिअखण्डमव्ययंप्रकारान्तरद्योतनार्थम् । श्रावकाणां श्रद्धांच-दानरुचिंतीवां परिज्ञाय विभवंच विपुलं तदीयगृहेष्ववगम्य 'कालं दुर्भिक्षादिकं भावंच' ग्लानत्वादिकं ज्ञात्वा बाल-वृद्धादयो वा आप्यायि भवन्त्विति ज्ञात्वा निरन्तरग्रहणमपि कुर्वन्ति, सञ्चयिकमपि दिने दिने गृह्णन्तीति भावः । यावत्र दायकस्य दानभावो न व्यवच्छिद्यते तावदच्छिन्ने भावे तिष्ठन्ति' दीयमानं प्रतिषेधयन्तीत्यर्थः, यथा तेषां भूयोऽपि श्रद्धा जायते ।। अथ स्थापनाकुलेषु भक्तपानग्रहणे सामाचारीमभिधित्सुराह[भा.१६११] दव्वप्पमाण गणणा, खारिय फोडिय तहेव अद्धा य।
संविग्ग एगठाणे, अनेगसाहूसु पन्नरस ।। वृ-द्रव्यं-शाल्दायि तस्य प्रमाणं ज्ञातव्यम्, कियदत्र गृहे रवत्यां शालि-मुद्गादिकं दिने दिने प्रविशति ? । 'गणना' नाम कियन्ति घृतपलान्यत्र प्रविशन्ति ? यद्वा कियन्ति मानषाण्यत्र जेमयन्ति? । “खारिय"त्तित्रारः-लवणंतेन संस्कृतानि क्षारितानि' लवणकरीरादीनि व्यञ्जनानि तानि कियन्त्यत्रपच्यन्ते? इति। “फोडिय"त्ति 'स्फोटितानि' मरिच-जीरकादिकटुभाण्डधूपितानि शालनकानिएतेषामपि तथैव रमाणं ज्ञातव्यम् । अद्धा' कालः स ज्ञातव्यः, किमत्रप्रहरे वेला? उतसार्द्धप्रहरे? आहोश्चित्प्रहरद्वये? इति। एतद्रव्यप्रमाणादिकविज्ञाय ‘संविग्नः' मोक्षाभिलाषी “एगठाणे"त्ति एकः सङ्घाटकस्तत्र प्रविशति । यदि पुनरनेके साधवः स्थापनाकुलेषु प्रविशन्ति ततः ‘पञ्चदश' आधाकर्मादोय अनिसृष्टान्ता उद्गमदोषा भवन्ति, अध्यवपूरकस्य मिश्रजात एवान्तर्भावात् । एष सङ्ग्रहगाथासमासार्थः॥
अस्या एव भाष्यकृद् व्याख्यानमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org