SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ बृहत्कल्प-छेदसूत्रम् -१ प्रच्यवमानो मिथ्यात्वमद्याप्यप्राप्तोऽव्यक्तमुपशमगुणं वेदयत इति सम्यग्दृष्टि ॥ सम्प्रति सासादनशब्दव्युत्पत्तिमाह[भा.१२८/२] संसायं सायंतो, सस्सादो वा वि सासाणो॥ वृ-'स्वं' आत्मीयम् आयं सातयन् “सासादो वा वि सासाणो' 'सास्वादः' अव्यक्तोपशमगुणास्वादसहित इति कृत्वा ‘सास्वादनः' सह आस्वादनं यस्य स तथेति व्युत्पत्तेः ।। अधुना क्षायोपशमिकं सम्यक्त्वमाह[भा.१२९] जो उ उदिने कीणे, मिच्छे अनुदिन्नगम्मि उवसंते। सम्मीभावपरिणतो, वेयंतो पोग्गले मीसो॥ वृ-यस्तु उदीर्णे' उदयावलिकाप्रविष्टेमिथ्यात्वेक्षीणे अनुदीर्णे' अनुदयप्राप्तेच 'उपशान्ते' उपशान्तं नाम किञ्चिन्मिथ्यात्वरूपतामपनीय सम्यक्त्वरूपतया परिणतं किञ्चिन्मिथ्यात्वरूपमेव सद् मस्मच्छन्नाग्निरिवानुद्रेकावस्थाप्राप्तम्, तस्मिन् तथारूपे सति 'पुद्गलान्' सम्यक्त्वरूपान् 'वेदयमानः' सम्यग्भावपरिणतः सः 'मिश(श्रः) क्षायोपशमिकसम्यग्भ्रष्टिः । सम्यक्त्वरूपधर्मनिदेशप्रक्रमेऽपि धर्मिणा निर्देशो धर्म-धर्मिणोः कथञ्चिदभेदख्यापनार्थः ॥ एवं पूर्वत्र परत्र च भावनीयम् ॥ इदानीं वेदनं सम्यक्त्वमाह[भा.१३०] जो चरमपोग्गले पुन, वेदेती वेयगं तयं बिंति। केसिंचि अणादेसो, वेयगदिट्ठी खओवसमो॥ वृ-'यः' दर्शनसप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वो भविष्यति तस्मिन् समये वर्तमानः सम्यग्दर्शनस्य चरमान्पुद्गलान् वेदयते, तस्य 'तत्' चरणपुद्गलवेदनं वेदकसम्यक्त्वं पूर्वसूरयो ब्रुवते । 'केषाञ्चित् पुनः' बोटिकानामयमादेशः- 'वेदकष्टिः' वेदकसम्यग्दर्शनं क्षायोपशमिकंसम्यग्दर्शनम्, सोऽनादेशः, सम्यक्त्वापरिज्ञानादिति ।।सम्प्रतिक्षायिकदर्शनमाह[भा.१३१] दंसणमोहे खीणे, खयदिट्ठी होइ निरवसेसम्मि । केण उ सम्मो मोहो, पडुच्च पुव्वं तु पन्नवणं ।। वृ-दर्शनमोहे "निरवशेषे' त्रिप्रकारेऽपि क्षीणे 'क्षयष्टिः क्षायिकं सम्यग्दर्शनं भवति । आह यद् मिथ्यात्वदर्शनं तद् मोहः स्यात्, तस्य सम्यग्दर्शनमोहकत्वात्, यत् ‘सम्यक् सम्यग्दर्शनं तत् केन कारणेन मोहः? सूरिराहपूर्वां प्रज्ञापनंप्रतीत्य। किमुक्तंभवति?-यथा मदनकोद्रवाणां निर्मदनीकृतानामप्योदनः स एष मदनकोद्रवौदन इति व्यपदिश्यते, तेषांपूर्वं समदनत्वात्; एवं तेऽपि सम्यक्त्वपुद्गलाः पूर्वं मिथ्यात्वपुद्गला आसीरन्, ते च दर्शनमोहकाः, अतः पूर्वभावप्रज्ञापनामधिकृत्य तेऽपिदर्शनमोह इति व्यपदिश्यन्ते॥आह पूर्वमिदमुक्तम्-“आसज्ज उसामित्तं, लोइय लोउत्तरे भयणा" तत्र किं सर्वमेव द्वादशाङ्गं गणिपिटकं मिथ्याष्टिपरिगृहीतं भवति ? किं वा किञ्चिद् ? इत्यत आह[भा.१३२] चोद्दस दस य अभिने, नियमा सम्मं तु सेसए भयणा ।। मति-ओहिविवच्चासो, वि होति मिच्छे न उण सेसे ॥ वृ-यस्य चतुर्दश पूर्वाणि यावद् दश च पूर्वाणि 'अभिन्नानि' परिपूर्णानि सन्ति तस्मिन् नियमात् सम्यक्त्वम्। शेषे' किञ्चिदूनदशपूर्वधरादौ भजना' सम्यक्त्वंवा स्यान्मिथ्यात्वं वेत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy