________________
३६३
उद्देशक : १, मूलं-६, [भा. १४०३] - [भा.१४०३] सव्वपयत्तेण अहं, कल्लं काऊण भोअणं विउलं ।
दाहामि तुट्ठमनसा, होहिइ मे पुनलाभो त्ति ॥ .. वृ. सर्वप्रयत्नेनाहं 'कल्पे' द्वितीयेऽहनि भोजनं विपुलं कृत्वा दास्यामि 'तुष्टमनसा' प्रहृष्टेन
चेतसा, ततो भविष्यति मे महान् पुण्यलाभः । इत्यं विचिन्त्य द्वितीये दिवसे विपुलमशनादि भक्तभवगाहिमं वा उपस्कृत्य तं भगवन्तं प्रतीक्षमाणा तिष्ठति ॥ ततः किमभूत् ? इत्याह[भा.१४०४] फेडित वीही तेहिं, अनंतवरनाण-दसणधरेहिं।
अद्दीन अपरितंता, बिइयं च पहिंडिया तहियं ॥ वृ-स्फेटिता-परिहृता वीथी 'तैः' जिनकल्पिकैः, कथम्भूतैः ? 'अनन्तवरज्ञान-दर्शनधरैः' इहानन्तज्ञानमयत्वादनन्ताः-तीर्थकरास्तैरूपदिष्टे वरे-उत्तमे जिनकल्पिकानां ये ज्ञान-दर्शने उपलक्षणत्वात् चारित्रं च तानि धारयन्तीत्यनन्तवरज्ञान-दर्शनधरास्तैः । आह च चूर्णिकृतअनंतं नाणं जेसिं ते अनंता-तित्थकरा, तेहिं जिनकप्पियाणं वरं नाणं दंसणं चरितंच जंभणियं तद्धरेहिं ति । ततस्ते 'अदीनाः' मनसा अविषन्नाः 'अपरितान्ताः' कायेनानिर्विन्ना द्वितीयां वीथीं क्तमागतां पर्यटितास्तत्र क्षेत्रे । एकवचनप्रक्तमेऽपि बहुवचनामिधानमन्येषामपि जिनकल्पिकानामेवं-विधवृत्तान्तसम्भवख्यापनार्थम् ॥अत्र चेयं व्यवस्था[भा.१४०५] पढमदिवसम्मि कम्मं, तिन्नि उ दिवसाइँपूइयं होइ।
पूतीसुतिसुन कप्पइ, कप्पइ तइओ जया कप्पो॥ वृ-प्रथमे दिवसे तद् भक्तमुपस्कृतमाधाकर्म । त्रीणि दिवसानि यावद् तद् गृहं पूतिर्भवति, तेषु च त्रिषु पूतिदिनेषु तस्मिन् गृहेऽन्यदपि किञ्चिन्न कल्पते। यदा तुतृतीयः कल्पो गतो भवति तदा कल्पते। कल्पशब्देनेह दिवस उच्यते। उक्तञ्च पञ्चवस्तुकटीकायाम्-कल्पतेतृतीये 'कल्पे' दिवसे गतेऽपरस्मिन्नहनीति इदमेव स्पष्टयन्नाह[भा.१४०६] बिइयदिवसम्मि कम्म, तिन्नि उ दिवसाइँ पूइयं होइ ।
तिसु कप्पेसुन कप्पइ, कप्पइ तं छठ्ठदिवसम्मि॥ वृ-यस्मिन् दिवसे स जिनकल्पिकः प्रथमवीथ्यामटन् तया दृष्टस्तदपेक्षया द्वितीये दिवसे तद् भक्तमाधाकर्म, तदनन्तरंत्रीणि दिवसानिपूतिकं भवति, तेषुत्रिषु 'कल्पेषु' दिवसेषुन कल्पते, किन्तु कल्पते तत् षष्ठे दिवसे ।। अथवगाहिमविषयं विधिमाह[भा.१४०७] कल्लं से दाहामी, ओगाहिमगंन आगतो अज्ज ।
तइयदिवसाइतं होइ पूइयं कप्पए छठे ॥ वृ-अवगाहिमं दिनद्वयमपि क्षमतइति कृत्वा साश्राद्धा चिन्तयति-यदर्थमयमवगाहिमपाको मया कृतः स मुनिरद्य मम गृहाङ्गणं नागतः, अतः कल्ये "से" तस्याहं दास्यामीदमवगाहिममिति विचिन्त्य तद्दानार्थं यदि स्थापयति तदा तत् तृतीयेऽपि दिवसे कर्मैव भवति । य पुनस्तस्मिन्नैव पाकदिवसे व्यवच्छिन्नभावासाआत्मार्थितं करोति तदवगाहिममपि भक्तवमौलदिवसापेक्षया द्वितीये दिवसे कर्म, तृतीयादिषु तद् गृहं पूतिकम्, षष्ठे तु दिवसे कल्पते ॥ एतदेव स्पष्टयति[भा.१४०८] एमेवोगाहिमगं, नवरंतइयदिवसे वितं कम्मं ।
तिसु पूइयं न कप्पइ, कप्पइ तं सत्तमे दिवसे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org