________________
उद्देशक : १, मूलं -६, [भा. १३९२]
३६१
वा वसतिं निवारयन्ति, द्वारे "न ढक्कंति" कपाटाभ्यां न संयोजयन्ति, न वा 'अर्गलयन्ति' नार्गलया नियन्त्रयन्ति । स्थविरकल्पिका अपि 'दर्पेण' कार्याभावे एवमेव न वसतेः परिकर्म कुर्वन्ति, 'कार्येतु' पुष्टालम्बने ‘भाज्याः' परिकर्म कुर्वन्त्यपीति भावः ८ ।। कियच्चिरोच्चारप्रश्रवणाऽवकाशतृणफलक-संरक्षण-संस्थापनाद्वाराणि गाथाद्वयेन भावयति
[भा. १३९३] किञ्चिरकालं वसिहिह, इत्थ य उच्चारमाइए कुणसु । इह अच्छसु मा य इहं, तण- फलए गिण्हिमे मा य ॥ [भा. १३९४] सारक्खह गोणाई, मा य पडिंतिं उविक्खहउ भंते ! । अन्नं वा अभिओगं, नेच्छंतऽचियत्तपरिहारी ॥
वृ-यस्यां वसतौ याच्यमानायां तदीयस्वाभिन इत्यं भणन्ति-कियच्चिरं कालं वत्स्यथ यूयम् ? ९, यद्वा 'अत्र' प्रदेशे 'उच्चारादीनि ' पुरीष-प्रश्रवणादीनि कुरु, अत्र तु मा कुरु १०-११, 'इह’ अस्मिन्नवकाशे आसीथाः, इह, भेति १२, 'एतानि वा' हस्तसंज्ञया निर्दिश्यमानानि तृण-फलकानि गृहीयाः मा एतानीति १३, संरक्षत वा गवादीन् बहिर्निर्गच्छतो यूयमस्माकं क्षेत्रादौ गतानां व्याकुलानां वा १४ मा च पतन्तीं वसतिमुपेक्षध्वं किन्तु 'संस्थापना' पुनःसंस्काररूपा विधेया १५ । “संठवणया य” त्ति द्वारगाथायां यश्रचशब्दस्तेन सूचितमन्यं वा स्वाध्यायनिषेधादिरूपं यत्र वसतिस्वामी ‘अभियोग' नियन्त्रणां करोति तं मनसाऽपि नेच्छन्ति, सूक्ष्मस्याप्यप्रीतिकस्य परिहारिमणोऽमी भगवन्त इति ।। प्राभृतिका ऽग्नि- दीपा -ऽवधानद्वाराणि व्याचष्टे
[ भा. १३९५] पाहुडिय दीवओ वा, अग्नि पगासो व जत्य न वसन्ति । जत्थ य भणति ठंते, ओहाणं देह गेहे वि ॥
वृ- यस्यां वसतौ 'प्राभृतिका' बलि क्तियते १६ दीपको वा यस्यां विधीयते १८ 'अग्नि' अङ्गार- ज्वालादिकस्तस्य प्रकाशो वा यत्र भवति तत्र न वसन्ति १७ । यत्र च तिष्ठति सत्यगारिणा भणन्ति अस्माकपि गेहे 'अवधानम्' उपयोगं तत्रापि नावतिष्ठन्ते १९ ।।
वत्स्यथ कति जनाः इति द्वारमाह
[भा. १३९६ ] वसहिं अनुन्नविंतो, जइ भन्नइ कइ जण त्थ तो न वसे । सुहुमं पि न सो इच्छइ, परस्स अप्पत्तियं भगवं ॥
वृ- वसतिमनुज्ञापयन् यद्यसौ भण्यते 'कति जना यूयं वत्स्यथ ?' इति तत्रापि न वसति, कुतः ? इत्याह-सूक्ष्ममपि नासाविच्छति परस्याप्रीतिकं भगवान् । " कइ जना उ" त्ति अत्र यस्तुशब्दस्तेनान्यामपीषदप्रीतिकजननी वसतिमसौ परिहरतीति गम्यते २० । उक्तपञ्चवस्तुकेसुमं पहु अचियत्तं, परिहरए सो परस्स नियमेणं ।
जं तेन तुसद्दाओ, वज्रइ अन्नं पितज्जणणिं ॥ - भिक्षाचर्या-पानक-लेपालेप- अलेप द्वाराणि विवृणोति -
[भा. १३९७] तइयाइ भिक्खचरिया, पग्गहिया एसणा य पुव्वुत्ता। एमेव पानगस्स वि, गिण्हइ अ अलेवडे दो वि ।।
वृ- तृतीयस्यां पौरुष्यां भिक्षाचर्या, एषणा च 'प्रगृहीता' अभिग्रहयुक्ता, सा च "पंचसु गह दोसऽग्गहु' इत्यादिना पूर्वमेवोक्ता २१ । एवमेव पानकस्यापि तृतीयपोरूष्यां प्रगृहीतया चैषणया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org