________________
उद्देशक : १, मूलं-६, [भा. १३७९]
३५९ पञ्च सामाचारीर्जिनकल्पिकः प्रयुङ्क्ते । अन्याः सामाचार्यो न भवन्ति से' तस्य 'शेषाः पञ्च' इच्छा काराद्याः, प्रयोजनाभावात् ।।आदेशान्तरमाह[भा.१३८०] आवासियं निसीहियं, मोत्तुं उवसंपयंच गिहिएसु ।
सेसा सामायारी, न होति जिणकप्पिए सत्त॥ आवश्यिकीं नैषैधिकी मुक्त्वा उपसंम्पदं च 'गृहिषु' गृहस्थिवषया जिनकल्पिकस्य शेषाः सामाचार्य' मिथ्याकारद्याः सप्त न भवन्ति, तद्विषयस्य स्खलितादेरभावात् ॥ [भा.१३८१] अहवा वि चक्कवाले, सामायारी उ जस्स जा जोग्गा ।
सा सव्वा वत्तव्वा, सुयमाई वा इमा मेरा ।। अथवाऽपि चक्तवाले प्रत्युपेक्षळादौ नित्यकर्मणि यस्यजिनकल्पिकादेर्या सामाचारी योग्या सासर्वाअत्रसामाचारीद्वारे वक्तव्या। श्रुतादिकावा 'इयं वक्ष्यमाणा मेरा' मर्यादासामाचारी।।
तामेवाभिधित्सुरिगाथात्रयमाह[भा.१३८२] सुय संघयनुवसग्गे, आतंके वेदना कइ जनाय ।
थंडिल्ल वसहि केच्चिर , उच्चारे चेव पासवणे ।। [भा.१३८३] ओवासे तणफलए, सारक्खणया य संठवणया य।
पाहुडि अग्गी दीवे, ओहाण वसे कइ जना य॥ [भा.१३८४] भिक्खायरिया पानग, लेवालेवे तहा अलेवेय।
आयंबिल पडिमाओ, जिणकप्पे मासकप्पो य ।। वृ-श्रुतं? संहननं २ उपसर्गा ३आतङ्कः ४ वेदनाः ५कतिजनाश्रच ६ स्थण्डिलं ७वसति ८ कियच्चिरं ९ उच्चारश्चैव १० प्रश्रवणं ११ अवकाशः १२ तणफलकं १३ संरक्षणता च १४ संस्थापनताच १५प्राभृतिका १६अग्नि १७दीपः १८अवधानं १९वत्स्यथ कतिजनाश्च २० भिक्षाचर्या २१ पानकं २२ लेपालेपः २३ तथा अलेपश्रच २४ आचाम्लं २५ प्रतिमाः२६ मासकल्पश्रच २७ “जिनकप्पे"त्तिएतानिसप्तविंशतिद्वाराणिजिनकल्पविषयाणि वक्तव्यानीति द्वारगाथात्रयसमुदायार्थः ॥ अथावयवार्थं प्रतिद्वारं प्रतिपिपादयिषुः “यथोद्देशं निर्देशः" इति न्यायत् प्रथमतः श्रुतद्वारमाह[भा.१३८५] आयारवत्थुतइयं, जहन्नयं होइ नवमपुव्वस्स।
तहियं कालन्नाणं, दस उक्कोसेण भिन्नाई॥ वृ-जिनकल्पिकस्य जघन्यकं श्रुतं 'नवमपूर्वस्य' प्रत्याख्याननामकस्याचाराख्यं तृतीयं वस्तु तस्मिन्नधीते सति कालज्ञानं भवतीत्यतस्तदक्छुितपर्याये वर्तमानस्य न जिनकल्पप्रतिपत्ति। उत्कर्षतो दश पूर्वाणि भिन्नानि श्रुतपर्यायः । सम्पूर्णदशपूर्वधरः पुनरमोधवचनतया प्रवचनप्रभावनापरोपकारादिद्वारेणैव वहुतरंनिर्जरालाभमासादयति अतोनासौ जिनकल्पंप्रतिपद्यते।। उक्तं श्रुतद्वारम् १ अथ संहननद्वारमाह[भा.१३८६] पढमिल्लुगसंधयणा, धिईए पुन वजकुड्डसामाणा।
उप्पजंति न वा सिं, उवसग्गा एस पुच्छा उ॥ वृ-जिनकल्पिकाः 'प्रथमिल्लुकसंहननाः' वज्रर्षभनाराचसंहननोपेताः ‘धृत्या' अङ्गीकृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org