________________
पीठिका- [भा. ११४]
३३
[भा.११४] मिच्छत्ता संकंती, अविरुद्धा होति सम्म-मीसेसु ।
__ मीसातो वा दुन्नि वि, न उ सम्मा परिणमे मीसं ॥ वृ- मिथ्यात्वात् पुद्गलसङ्क्रान्ति सम्यक्त्व-मिश्रोयोरविरुद्धा । 'मिश्रतो वा' सम्यग्मिथ्यात्वतो वा पुद्गलानादाय द्वावपि सङ्कमयति । तद्यथा-मिथ्यात्वं सम्यक्त्वं च । चाक्तमनन्तरम् । 'सम्यक्त्वात्' सम्यक्त्वदलिकात् पुनः पुद्गलानादाय न मिश्र' मिश्रभावं परिमयति॥ [भा.११५] हायंते परिणामे, न कुणति मीसे उ पोग्गले सम्मे।
नय सोहिया सि विजंति केइ जे दानि वेएजा ।। बृ-यस्य तु सम्यग्दर्शनलाभे हीयमानः परिणामः स तस्मिन् हीयमाने परिणामे न मिश्रान् पुद्गलान् तुशब्दात् मिथ्यात्वपुद्गलांश्च सम्यक्त्वपुद्गलान् करोति । न च ‘से' तस्य 'शोधिताः' पूर्वशोधिताः केचिदन्ये पुद्गला विद्यन्ते यान् ‘इदानीम्' अधिकृतसम्यक्त्वपुअनिष्ठाकालेवेदयेत्।। [भा.११६] सम्मत्तपोग्गलाणं, वेदेउं सो य अंतिमंगासं ।
पच्छाकडसम्भत्तो, मिच्छत्तं चेव संकमति ॥ वृ-ततः सम्यक्त्वपुद्गलानामन्तिमग्रासंवेदयित्वा पश्चात्कृतसम्यक्त्वोऽपिमिथ्यात्वमेव 'सकामति॥ [भा.११७] मिच्छत्तम्मिअखीणे, तेपुंजी सम्मदिट्ठिणो नियमा।
खीणम्मि उ मिच्छत्ते,दु-एकपुंजी व खवगो वा ।। - वृ-अक्षीणे मिथ्यात्वे ये सम्यग्दृष्टयस्ते नियमात् त्रिपुञ्जिनः । क्षीणे तु मिथ्यात्वे द्विपुञ्जी मिथ्यात्वपुञ्जस्य क्षीणत्वाद्, एकपुञ्जी वा मिश्रपुञ्जक्षये । यदिवा क्षपकः सम्यक्त्वपुञ्जस्यापि क्षये । तदेवं त्रयाणामपि पुानां दृष्टान्तेन निर्णयः कृतः स्वरूपं च व्यार्णितम्, साम्प्रतं पुञ्जत्रयस्याप्यवेदनत औपशमिकसम्यग्दृष्टिमाह[भा.११८] उवसामगसेढिगयस्स होति उवसामियं तु सम्मत्तं ।
जो वा अकयतिपुंजो, अखवियमिच्छओ लहइ सम्मं ।। वृ-उपशमकश्रेणिगतस्य भवतिसम्यक्त्वमौपशमिकम्, यो वा अकृतत्रिपुञ्जः' अपूर्वकरणे पुत्रयाकरणतः । तत्र क्षपकोऽपि दर्शनसप्तकस्यापूर्वकरणमारूढः पुञ्जत्रयं न करोति ततस्तद्यवच्छेदार्थमाह-अक्षपितमिथ्यात्वो यल्लभते सम्यक्त्वं तदौपशमिकंसम्यक्त्वमिति ।।एतौ द्वावप्यौपशमिकसम्यग्दृष्टी सम्यक्त्वमौपशमिकमन्तर्मुहूर्तमनुभूय तदनन्तरमवश्यं प्रतिपततः, तत्र दृष्टान्तद्वयमाह[भा.११९] वाही असव्वछिन्नो, कालाविक्खंकुरु व्व दड्डदुमो ।
___उदसामगाण दोण्हवि, एते खलु होति दिद्वंता ।। व-यथाव्याधिरसर्वच्छिन्नः 'कालापेक्षं' क्रियाविशेषणमेतत् कालमपेक्ष्येत्यर्थः पुनरुद्भवति, दग्धो वा द्रुमः कालापेक्षं यथाङ्कुरं मुञ्चति; एवमुपशमितमपि मिथ्यात्वं कालमपेक्ष्य पुनरुद्रिक्तीभवतीति द्वयोरपि प्रतिपातः । तथा चाह-द्वयोरप्युपशमकयोरेती भवतो दृष्टान्तौ ।। [18[3]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org