________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
वृ-प्रथमं प्रतीच्छका यथा तमुपसम्पद्यन्ते तथा वक्तव्यम् । तत आत्मनः प्रतीच्छकानांच यथा स्थिरत्वं तुलना करोति । ततस्तेषां प्रतीच्छना वाचना च यथा भवति । ततः प्रमाद्यतां आर्द्रच्छगणदृष्टान्तो घट्टना रुञ्चना पत्रद्दष्टान्ताश्च यथाऽभिधीयन्ते । दुष्टाश्वविषयं दृष्टान्तं यथा साधव आचार्यानुद्दिश्य दर्शयन्ति । " तहिं गए" त्ति यत्राऽऽचार्यास्तिष्ठन्ति तत्र गतानां यथा राजदृष्टान्तः सूरिभिरुदाह्रियते । तदेतत् सर्वं वक्तव्यमिति द्वारगाथासमासार्थः ॥
३३०
अथ विस्तरार्थं बिभणिषुः प्रथमद्वारमधिकृत्याह
[भा. १२४२] काहिइ अव्वोच्छित्तिं, सुत्त - ऽत्थाणं ति सो तदट्ठाए । अभिगम्मइ नेगेहिं, पडिच्छएहिं विहरमाणो ॥
वृ- एष महाभागः सूत्रार्थयोरव्यवच्छित्तिं करिष्यतीतिबुध्धा 'सः' भव्याचार्य 'तदर्थं ' सूत्रार्थग्रहणनिमित्तमभिगम्यतेऽनेकैः प्रतिच्छकैः 'विहरमाणः' देशदर्नं कुर्वन्निति ।। आह किमसौ डिण्डिमाडम्बेण घोषयति यथा 'अहं बहुश्रुतोऽहं बहुश्रुतः' इति यदेवमनेकैः प्रतीच्चकैरभिगम्यते?, नैवम्, न खलु सद्विवेकसुधाधाराधौतचेतसः सन्तः सन्तः कदाचनापि स्वगुणविकत्थने प्रवृत्तिमातन्वते, मिथ्याभिमानाख्यप्रबलतमतमस्तिरस्कृतसज्ञानलोचनप्रसराणामितरजन्तूनामेव तत्र प्रवृत्तिसम्भवात् । उक्तञ्च
मोहस्य तदपि विलसितमभिमानो यः परप्रीणितायाः । तत् तमसोऽपि तमिस्रं, याऽऽत्मस्तुतिरात्मना क्रियते ॥ यद्येवं ततः कथमिवासावेवमेव प्रसिद्धिमारोहति ? इति इत्युच्यते
[भा. १२४३] वासावज्जविहारी, जइ वि य न विकंथए गुणे नियए । अतो विणिज, पगइ चिय सा गुणगणाणं ॥
वृ- वर्षावर्जविहारी, वर्षासु चतुरो मासानेकत्रस्थायी अन्यदा पुनरनियतविहारीत्युक्तं भवति । स एवंविधो यद्यपि न विकत्थते 'निजकानू' आत्मीयान् गुणान् तथापि 'अभणन्नपि ' स्वगुणान् अकीर्त्तयन्नपि ज्ञायते । कुतः ? इत्याह- प्रकृतिरेव सा 'गुणगणानां' ज्ञानादिगुणसमूहानाम्। तदुक्तम्अभणता वि हु नति सुपुरिसा गुणगणेहि नियएहिं ।
किं बोल्लंति मणीओ, जाओ लक्खेहि धिप्पंति ॥
एतदेवान्योक्तिदृष्टान्तेन द्रढयति
[भा. १२४४] भमरेहि महुयरीहि य, सूइजइ अप्पणो य गंधेणं । पाउसकालकलंबो, जइ वि निगूढो वणनिगुंजे ॥
वृ- इह किल कदम्बकवृक्षाः प्रावृषि जलधरधाराभिहताः पुष्पन्ति । ततः प्रावृट्काले यः कदम्बः स यद्यपि वननिकुञ्जे ‘निगूढः' गुप्तस्तिष्ठति तथापि भ्रमरैर्मधुकरीभिश्चात्मनः सम्बन्धिना गन्धेन च प्रसरता ‘सूच्यते' ज्ञाप्यते यथा 'अत्र कदम्बवृक्षस्तिष्ठति' । एवमयमपि भ्रमरमधुकरीकल्पाभि साधु-साध्वीभिः परिमलकल्पेन च निजगुणनिकुरम्बेन प्रसर्पता कदम्बवद् 'उद्यानादावत्यन्तनिगूढोऽपि तिष्ठन् सूच्यते ।। यदि वा
[भा. १२४५] कत्थ व न जलइ अग्गी, कत्थ व चंदो न पायडो होइ । कत्थ वरलक्खणधरा, न पायडा होंति सप्पुरिसा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org