SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-६, [भा. ११८३] ३१५ भवति, सच ज्येष्ठोऽन्यो वा भवेत्, प्रायोज्येष्ठ एव । सचज्येष्ठगणिरन्यो वा पूर्वद्वारेण प्रविश्य दक्षिणपूर्वे दिग्भागे ‘अदूरे' प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदति । शेषा अपि गणधरा एवमेवाभिवन्ध ज्येष्ठगणधरस्य मार्गतः पार्श्वतश्च निषीदन्तीति ।।। __ आह भुवनगुरुरूपस्य सकलत्रिभुवनातिशायित्वात् त्रिदशकृतानां प्रतिरूपकाणां तेन सह साम्यम् ? असाम्यं वा? इत्याशङ्कानिरासार्थमाह[भा.११८४] जे ते देवेहि कया, तिदिसिं पडिरूवगा जिनवरस्स। तेसिं पि तप्पभावा, तयानुरूवं हवइ रुवं ।। वृ-यानि तानिदेवैः कृतानि तिसृषुदिक्षुजिनवरस्यप्रतिरूपकाणितेषामपि 'तप्रभावात्' तीर्थकरणप्रभावात् 'तदनुरूपं तीर्थकररूपानुरूपंरूपं भवति॥अथये यथा भगवतः समवसरणे निषीदन्ति तिष्ठन्ति तानभिधित्सुः सङ्ग्रहगाथामाह[भा.११८५] तित्थाऽइसेससंजय, देवी वेमाणियाण समणीओ। भवणवइ-वाणमंतर-जोइसियाणंच देवीओ॥ वृ-'तीर्थ' गणधरस्तस्मिन् उपविष्टे सति अतिशायिनः संयता उपविशन्ति, ततो देव्यो वैमानिकानाम्, ततः श्रमण्यः, तथा भवनपति-व्यन्तर-ज्योतिष्काणां च देव्य इति॥ अथैतदेव विवृणोति[भा.११८६] केवलिणो तिउण जिनं, तित्थपणामंच मग्गओ तस्स। मणमाई विनमंता, वयंति सट्ठाण सट्ठाणं॥ वृ-केवलिनः पूर्वद्वारेण प्रविश्य जिनं 'त्रिगुणं' त्रिप्रदक्षिणीकृत्य 'नमस्तीर्थाय' इति वचसा तीर्थप्रमाणं च कृत्वा 'तस्य' तीर्थस्य-प्रथमगणधररूपस्य शेषगणधराणां च 'मार्गतः' पृष्ठतो दक्षिणपूर्वस्यांनिषीदन्ति।तथा “मणमाई वि"त्तिमनःपर्यवज्ञानिनआदिशब्दाद् अवधिज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्पोषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तंत्रिप्रदक्षिणीकृत्यनमस्कृत्यच 'नमस्तीर्थाय, नमो गणधरेभ्यः, नमः केवलिभ्यः' इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति । शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुंप्रदक्षिणीकृत्य वन्दित्वा च 'नमस्तीर्थाय, नमोगणभृम्धः,नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः' इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति । एवं मनःपर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति । तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुवनबान्धवं त्रिप्रदक्षिणीकृत्य नत्वा च 'नमस्तीर्थाय, नमः सर्वसाधुभ्यः' इत्यभिधाय निरतिशयसाधूनांपृष्ठतस्तिष्ठन्ति ननिषीदन्ति। श्रमण्योऽपिपौरस्त्यद्वारेण प्रविश्य तीर्थकृतंप्रदक्षिणीकृत्य प्रणम्यच तीर्थस्य साधूनांच नमस्कार विधाय वैमानिकदेवीनांपृष्ठतस्तिष्ठन्तिन निषीदन्ति । भवनपतिदेव्योज्योतिष्कदेव्योव्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति॥ [भा.११८७] भवणवई जोइसिया, बोधव्वा वानमंतरसुराय । वेमाणिया य मनुया, पयाहिणं जंच निस्साए । वृ-भवनपतयोज्योतिष्कावानमन्तरसुराश्च एतेभगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः । वैमानिका देवा मनुष्याः चशब्दाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy