________________
२९६
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ- यदि 'कृपूदीनि' कूप-वृक्ष-तदुभयानि 'पार्वे' एकस्यां दिशि भवन्ति ततः खण्डमल्लकाकारस्त्रिविधोऽपि ग्रामो यथाक्रमं मन्तव्यः । तत्र यस्य ग्रामस्य बहिरेकस्यां दिशि कूपः तामेवैकां दिशं मुक्त्वा शेषासु दिक्षु रज्जवो निर्गत्य तिर्यग्वृतिं प्रप्योपरि हर्म्यतलान्यासाद्य पटहच्छेदेनोपरमन्ते, एष उत्तानकखण्डमल्लकाकारः। अवाङ्मुखखण्डमल्लकाकारोऽप्येवमेव, नवरंयस्यैकस्यां दिशि देवकुलमुच्चैस्तरोववृक्षः। सम्पुटकखण्डमल्लकाकारस्तुयस्यैकस्यां दिशि कूपस्तदुपरिष्टाच्च वृक्षः, शेषं प्राग्वत् । “पुव्वावर" इत्यादि, पूर्वस्यामपरस्यां च दिशि समश्रेणिव्यवस्थितैर्वृक्षभित्तिसंस्थितो ग्रामो भवेत् ।। [भा.११०७] पासहिए पडाली, वलभी चउकोण ईसि दीहा उ ।
. चउकोणेसुजइ दुमा, हवंति अक्खाडतो तम्हा।।
वृ-पडालिकासंस्थितोऽप्येवमेव, नवरमेकस्मिन्पार्वे वृक्षयुगलं समश्रेण्या व्यवस्थितम्। तथा यस्य ग्रामस्य चतुर्वपि कोणेषुईषद्दीर्घा वृक्षा व्यवस्थिताः सवलभीसंस्थितः । अक्षवाटः' मल्लानांयुद्धाभ्यासस्थानम्, तद् यथा समचतुरस्र भवति एवं यदि ग्रामस्यापि चतुर्पुकोणेषुद्रुमा भवन्तिततोऽसौ चतुर्विदिग्वतिभिवृक्षः समचतुरस्रतया परिच्छिद्यमानत्वादक्षपाटकसंस्थितः॥ [भा.११०८] वट्टागारठिएहिं, रुयगो पुण वेढिओ तरुवरेहिं ।
तिकोणो कासवओ, छुरघरगं कासवं बिंती॥ वृ- यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद् वृत्ताकारव्यवस्थितैवृक्षैर्वेष्टितस्तदा रुचकसंस्थितः। यस्तुग्राम एव त्रिकोणतया निविष्टोवृक्षावात्रयोयस्यबहिन्यत्रं स्थिताः, एकतोद्वान्यतस्त्वेक इत्यर्थः, एष उभयथाऽपिकाश्यपसंस्थितः।काश्यपंपुन पितस्य सम्बन्धि क्षुरगृहं ब्रुवते, तद् यता यत्रं भवत्येवमयमपि ग्राम इति ॥ भावितानि सर्वाण्यपि संस्थानानि । अथ को नयः किं संस्थानमिच्छति? इति भाव्यते[भा.११०९]पढमेत्थ पडहछेदं, आ कासव कडग-कोट्टिमंतइओ।
नाणिं आहिपतिं वा, सद्दनया तिन्नि इच्छंति ॥ प्रथमोऽत्र नैगमनयः, स पटहच्छेदलक्षणं संस्थानं प्रतिपद्यते । सङ्गहोऽप्येवमेव मन्यत इत्यत्रैवान्तर्भाव्यते । व्यवहारस्तु भित्तिसंस्थानादारभ्य आ काश्यपसंस्थानं मन्यते । 'तृतीयः' ऋजुसूत्रः, सः कटकानां-तृणादिमयानां कुट्टिमानां वा-पाषाणादिब्धभूमिकानां यत् संस्थानं तद् मन्यते । 'त्रयस्तु' शब्दनया ज्ञानिनमधिपतिं वा ग्रामसंस्थानस्वामित्वेनेच्छन्ति।
एनामेव नियुक्तिगाथां व्यक्तीकुर्वन्नाह[भा.१११०]संगहियमसंगहिओ, संगहिओ तिविह मल्लयं नियमा।
भित्तादी जा कासवो, असंगहो वेति संठाणं॥ वृ-नैगमो द्विधा-साङ्ग्रहिकोऽसाङ्ग्रहिकश्च । तद्विपरीतोऽसामहिकः। तत्र यः सामहिकः स नियमात् 'त्रिविधम्' उत्तानका-ऽवाड्मुख-सम्पुटकमेदभिन्नं सम्पूर्णं वा कण्डं वा मल्लकं तस्य यत् पटहच्छेदलक्षणं संस्थानं तद् मन्यते । असामहिकस्तु भित्तिसंस्थानमादौ कृत्वा यावत् काश्यपसंस्थानम् एतानि सर्वाण्यपि 'ब्रूते' प्रतिपद्यत इत्यर्थः । सङ्ग्रह-व्यवहारौ तु सामहिकाऽसाङ्ग्रहिकयोरेव नैगमयोर्यथासङ्ख्यमन्तर्भावनीयाविति न पृथक् प्रपञ्चयेते इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org